Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
300
अलंकारमणिहारे
ष्ठी । स्वैरमुपलालयन्ती कीरमुपागास्कलिन्दजातीरात् ॥ १९०६ ॥...
अत्र स्वैरकीरोपलालनक्रियया अधरबिम्बस्य तदंशनभ्रमजननेन नन्दनन्दनरदनक्षतिरूपमर्मगोपनेन परवञ्चनम् । बिम्बो. ष्ठीति विशेष्यं बिम्बीफलभ्रान्या शुकेन दष्टस्स्यादयमधर इति भ्रमोत्पादनोपष्टम्भकम् ॥ ___ अत्र व्याजोक्तावाकारगोपनम्, युक्तौ त्वाशयगोपनमिति भेदः । यद्वा व्याजोक्तावुक्तया गोपनं, इह तु क्रियया गोपनमिति भेदः । एवंच 'आयान्तमालोक्य हरि प्रतोळ्याम्' इति पद्येऽपि युक्तिरेवेति कुवलयानन्दे स्थितम् ॥ ____ अत्रेदं चिन्त्यं-उक्तिक्रियाकृतगोपनभेदादनयोर्भेद इति न युक्तं, व्याजोक्तिप्रकरणे दीक्षितैरेव उक्तिशब्दस्य गोपनसाधनान्तरप्रत्यायकव्यापारमात्रोपलक्षणतायाः स्फुटतया प्रतिपादितत्वात् । तथैव तत्रैव “आयान्तमालोक्य" इत्युदाहरणे स्पष्टतया लक्षणस्याप्यनुगमितत्वाश्च । अतो विवक्षितस्य वस्तुनः केन चियापारेण परवञ्चनार्थ यद्गोपनं तद्वथाजोक्तिरित्येव व्याजोक्ति लक्षणं प्राचां युक्तयलङ्कारं पृथगलक्षयतामभिमतं, स च व्यापारः कचिदुक्तिरूपः, क्वचित्तदन्यरूपः, · गोपनीयश्च क्वचिदाकारः क्वचित्तदन्यदाशयादिकमिति विभागो युक्त इति न व्याजोक्तितोऽतिरिच्यते युक्तिरिति । अतः ‘आयान्तमालोक्य' इत्यत्र युक्तिरेवेति पूर्वोत्तरविरोधेन लेखनं चिन्त्यमेव । लाघवेन व्या. जोक्ते रेवोक्तरीत्या संभवादित्याहुः ॥ ____ अस्माभिस्तु-व्याजोक्तावुक्ति ग्रहणस्याकारगोपनार्थहेत्वन्तरप्रत्यायकव्यापारमात्रोपलणताया अस्वीकारण उक्तिरूपव्यापारे

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358