SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 300 अलंकारमणिहारे ष्ठी । स्वैरमुपलालयन्ती कीरमुपागास्कलिन्दजातीरात् ॥ १९०६ ॥... अत्र स्वैरकीरोपलालनक्रियया अधरबिम्बस्य तदंशनभ्रमजननेन नन्दनन्दनरदनक्षतिरूपमर्मगोपनेन परवञ्चनम् । बिम्बो. ष्ठीति विशेष्यं बिम्बीफलभ्रान्या शुकेन दष्टस्स्यादयमधर इति भ्रमोत्पादनोपष्टम्भकम् ॥ ___ अत्र व्याजोक्तावाकारगोपनम्, युक्तौ त्वाशयगोपनमिति भेदः । यद्वा व्याजोक्तावुक्तया गोपनं, इह तु क्रियया गोपनमिति भेदः । एवंच 'आयान्तमालोक्य हरि प्रतोळ्याम्' इति पद्येऽपि युक्तिरेवेति कुवलयानन्दे स्थितम् ॥ ____ अत्रेदं चिन्त्यं-उक्तिक्रियाकृतगोपनभेदादनयोर्भेद इति न युक्तं, व्याजोक्तिप्रकरणे दीक्षितैरेव उक्तिशब्दस्य गोपनसाधनान्तरप्रत्यायकव्यापारमात्रोपलक्षणतायाः स्फुटतया प्रतिपादितत्वात् । तथैव तत्रैव “आयान्तमालोक्य" इत्युदाहरणे स्पष्टतया लक्षणस्याप्यनुगमितत्वाश्च । अतो विवक्षितस्य वस्तुनः केन चियापारेण परवञ्चनार्थ यद्गोपनं तद्वथाजोक्तिरित्येव व्याजोक्ति लक्षणं प्राचां युक्तयलङ्कारं पृथगलक्षयतामभिमतं, स च व्यापारः कचिदुक्तिरूपः, क्वचित्तदन्यरूपः, · गोपनीयश्च क्वचिदाकारः क्वचित्तदन्यदाशयादिकमिति विभागो युक्त इति न व्याजोक्तितोऽतिरिच्यते युक्तिरिति । अतः ‘आयान्तमालोक्य' इत्यत्र युक्तिरेवेति पूर्वोत्तरविरोधेन लेखनं चिन्त्यमेव । लाघवेन व्या. जोक्ते रेवोक्तरीत्या संभवादित्याहुः ॥ ____ अस्माभिस्तु-व्याजोक्तावुक्ति ग्रहणस्याकारगोपनार्थहेत्वन्तरप्रत्यायकव्यापारमात्रोपलणताया अस्वीकारण उक्तिरूपव्यापारे
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy