________________
301
लोकोक्तिसरः (१४)
xommmmmmmmmmmmmmmmmmmmm णाकारगोपने व्याजोक्तिः। तदन्यव्यापारेणाशयगोपने युक्तिरित्येव व्यवस्थामाश्रित्य पृथगिमावलङ्कारौ लक्षितौ । दीक्षितानामपि व्याजोक्तिप्रकरणे ‘आयान्तमालोक्य' इति पद्ये व्याजोक्तिरेवति लेखनं मतान्तरानुरोधेन । युक्तयलङ्कारप्रस्तावे तस्मिनेव पधे युक्तिरेवेति लेखनं तु तत्रैव स्वनैर्भय प्रकाशयितुमिति न पूर्वोत्तरग्रन्थविरोध इति समाधेयम् । एवंच व्याजोक्तयलङ्कारप्रकरणे उदाहते 'यमुनातटीनिकुञ्जाद्वजम्' इति पद्येऽपि युक्तयलंकार एवं न तु व्याजोक्तिरिति दिक् ॥
इत्यलंकाग्मणिहारे युक्तिसरस्त्रिनवतितमः.
अथ लोकोक्तिसरः (९४)
लोकोक्तिस्स्यादसौ लोकप्रवादानुकतिर्यदि ॥
लोकानां जनानां यः प्रकृष्टो वादः उक्तिः प्रकर्षश्च तत्तदेशानुसारेण तत्तद्देशीयजनपरंपरागतत्वम तादृशवादस्यानुकृतिः उल्लेखः यः स लोकोक्तिरित्यर्थः । अयमप्यलंकारो दी. क्षितोपशमेव ॥ . यथा--
तव वेषवहनतोऽभवदवहसनपदं स पौण्डको भगवन् । क्रोष्टेव चित्रकायं दृष्टा तप्तायसा लिखन्कायम् ॥ १९०७ ॥
चित्रकायं व्याघ्र ‘पुण्डरीकः पञ्चनखश्चित्रकायमृगद्विषो' इत्यमरः । चित्रकायशब्दापादानं वक्ष्यमाणजम्बुककर्तृकस्वाङ्ग