________________
302
अलंकारमणिहारे
चित्रीकरणाभिलाषपूर्वकतप्तायश्शलाकाकरणकस्वाङ्गलेखनकर्मों - त्तम्भनाभिप्रायेण । दृष्ट्वा तप्तायसा तप्तायश्शलाकयेति यावत् । कार्य स्वाझं लिखन् कोष्टा जम्बुकं इव। स्पष्टमन्यत् । अत्रोत्तरार्धे कर्णाटान्ध्रदेशीयभाषाप्रसिद्धलोक प्रवादानुकृतिः ॥
यथावाशिक्षितमपि कौटिल्यं त्यक्ष्यति नैवासुरप्रकृति हृदयम् । अपि वेणुदळाबद्धं श्वापुच्छं किमु ऋजूभवेद्भगवन् ॥ १९०८॥
शुनः पुच्छं श्वापुच्छं 'शुनो दन्तदंष्ट्रा' इत्यादिना दीर्घः । अत्रान्ध्रदेशप्रसिद्ध लोकप्रवादानुकरणम् ॥
यथावा
शौरे त्वदन्यदैवं प्रत्येत्य भवाब्धितरणमाशंसन् । विश्वस्य महाबुद्दुदमभिपतति प्रावृषेण्यसरिति जनः ॥ १९०९ ॥
अत्राप्यान्ध्रदेशीयलोकप्रवादानुकृतिः ॥ . यथावा
महता योगेन त्वामिह तावदुपास्य यो महोदारम् । आलम्बेताल्पफलं शैलं खात्वाऽऽखुमेष गह्णाति ॥ १९१०॥ __ यथावा
सत्स्वपि सुदर्शनादिषु नखरैः प्रतिचस्करे त्वया दैत्यः । ननु नरहरे किमर्था नखापनेये परश्वथापेक्षा ॥ १९११ ॥