Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 326
________________ स्वभावोक्तिसरः (९७) 317 स्नाम । हुंभारवगम्भीरां गव्यां सायं निवर्तयति शौरिः ॥ १९४४॥ गव्यां गवां समूह 'तस्य समूहः' इत्यधिकारे 'खलगोरथात्' इति यत् । सुपीवराणि ऊधांसि आपीनानि यस्यास्तां तथोक्तां 'ऊधस्तु क्लीबमापीनम् ' इत्यमरः । 'ऊधसोऽनङ' इत्यनङि ‘बहुब्रीहरूधसो जीपू'। स्फुटार्थकमन्यत् । अत्र गोजातिस्वभावस्य वर्णनम् ॥ खचितहरिनीलमदं मञ्जलतापिञ्छपिञ्छसच्छायम् । अञ्जनयति मामकदशमानगिरिकुञ्जधामहरिधाम ॥ १९४५ ॥ अञ्जनगिरिकुलधामा यो हरिः तस्य धाम रोचिः इदं कर्तृ । मामकदृशं अञ्जनयति अञ्जनवतीं करोति अञ्जनशब्दान्मतुबन्तात् णाविष्ठवद्भावेन ‘विन्मतोः' इति मतुपो लुक् । अत्र गुणस्वभाववर्णनम् ॥ इतरेतरांसघट्टनहृषिततनुरुहं विवाहवेदिगतम् । अन्योन्याहिताहृतहगन्तमाभातु दिव्यमिथुनं तत् ॥ १९४६ ॥ ___ अत्र क्रियास्वभाववर्णनम् ॥ उरसि रमां निदधानं करयोश्चक्रं दरं च विद- . धानम् । कनकाम्बरं दधानं कनतान्मम मनसि फणिगिरिनिधानम् ॥ १९१७ ॥

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358