Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
निरुक्तिसरः (१०१)
335
यथावा
प्रद्योतनशतसहशा विद्योतितदशदिशाऽम्ब तव महसा । विध्वंसितद्युतितया विद्युदपद्यत यथार्थमभिधानम् ॥ १९८० ॥
विध्वंसिता द्युत् संपदादित्वात्किए । युतिः यस्यास्सा विद्युत् निष्प्रभेत्यर्थः । पक्षे विशेषेण द्योतत इति विद्यत् ‘द्यत दीप्तौ' 'भ्राजभास' इत्यादिना कर्तरि विप् । 'विद्यत्तटिति संध्यायां स्त्रियां त्रिषु तु निष्प्रभे' इति मेदिनी । स्पष्ट मन्यत् । अत्र विद्युदिति नानो योगेनार्थान्तरकल्पनम् ॥
यथावा
आहूतोऽपि नियोढुं बाहुभ्यां तव निरस्तरा• हुभ्याम् । नागाद्भुजगोऽव्युत तन्नागं तं प्राहुरर्थतत्त्वज्ञाः ॥ १९८१ ॥
अत्र नाग इति नाम्नः नागच्छतीति नाग इति योगादर्थान्तरं कल्पितम् ॥
यथावा -. .
त्वत्पदरुचिहरणात्तत्प्रहतश्शीर्षेऽम्ब लोहितं मुञ्चन् । लोकान्तर्हित आसीद्यल्लोहितकस्तदेष शोणमणिः ॥ १९८२॥ __ हे अम्ब! यत् यस्मात् त्वत्पदरुचिहरणाद्धेतोः शीर्षे त. त्प्रहृतः तेन त्वत्पदेन अभिहतः अतएव लोहितं रुधिरं मुञ्चन् शीर्षे उद्वमन् सन् लोकान्तर्हितः लोके अन्तर्धानं गतः आसीत्

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358