Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 356
________________ यथा हेतुसर : ( १०४ ) 347 त्रिदशाहितकुलशिक्षा त्रिदिववधू कर्णपत्रयुगर' क्षा | वेंकटशैलाध्यक्षा व्यक्तिः काऽप्यैक्षि जगद यथावा वनदक्षा || १९९८ ॥ अत्र त्रिदशाहितकुलशिक्षादि हेतोर्भगवतस्तच्छिक्षादिहेतुमतश्चैक्यं वर्णितम् ॥ ग्राहगृहीतमतङ्गजजीवितमतिवेलभावितं कृतिभिः । कमलानयनानन्दं कलयेमहि किमपि तेजसां बृन्दम् ॥ १९९९ ॥ अत्रापि ग्राहगृहीतमतङ्गजजीवित हेतोर्भगवतः तज्जीवितेन फलेन सहैक्यं वर्णितम् ॥ यथावा स्मितगर्भगण्डफलकं सितरुचिरुचिराभमुल्लसतिलकम् । आनन्दमेव भगवन्नदस्फुरितमाननं तवावैमि || २००० ॥ स्फुरितं अदः इदं तव आननं आनन्दमेव अवैमीति योजना | पक्षे अदस्फुरितं दकारस्फुरणरहितं आनन्दं आननं अवैमि । उत्सारितदकारमानन्दशब्द आननामिति निष्पन्नं जानामीत्यर्थः । अत्रापि आनन्द हेतोर्भगवदाननस्यानन्देन हेतुमता सहैक्यम्। चमत्कारान्तरं पूर्वोदाहरणतो विशेषः ॥ 1

Loading...

Page Navigation
1 ... 354 355 356 357 358