________________
यथा
हेतुसर : ( १०४ )
347
त्रिदशाहितकुलशिक्षा त्रिदिववधू कर्णपत्रयुगर'
क्षा | वेंकटशैलाध्यक्षा व्यक्तिः काऽप्यैक्षि जगद
यथावा
वनदक्षा || १९९८ ॥
अत्र त्रिदशाहितकुलशिक्षादि हेतोर्भगवतस्तच्छिक्षादिहेतुमतश्चैक्यं वर्णितम् ॥
ग्राहगृहीतमतङ्गजजीवितमतिवेलभावितं कृतिभिः । कमलानयनानन्दं कलयेमहि किमपि तेजसां बृन्दम् ॥ १९९९ ॥
अत्रापि ग्राहगृहीतमतङ्गजजीवित हेतोर्भगवतः तज्जीवितेन फलेन सहैक्यं वर्णितम् ॥
यथावा
स्मितगर्भगण्डफलकं सितरुचिरुचिराभमुल्लसतिलकम् । आनन्दमेव भगवन्नदस्फुरितमाननं तवावैमि || २००० ॥
स्फुरितं अदः इदं तव आननं आनन्दमेव अवैमीति योजना | पक्षे अदस्फुरितं दकारस्फुरणरहितं आनन्दं आननं अवैमि । उत्सारितदकारमानन्दशब्द आननामिति निष्पन्नं जानामीत्यर्थः । अत्रापि आनन्द हेतोर्भगवदाननस्यानन्देन हेतुमता सहैक्यम्। चमत्कारान्तरं पूर्वोदाहरणतो विशेषः ॥
1