________________
348
अलङ्कारमणिहारे
. नविभेदव्यपदेशस्याचमत्कारितया कथंकारमलंकारतेति चेन्न कार्यावश्यंभावतच्छैघ्याभ्यां सहकार्यन्तरनैरपेक्ष्येण कार्योत्पादनप्रत्यायने तस्य चमत्कारिताया दुर्निवारतयाऽलंकारत्वस्य निष्प्रत्यूहत्वात् । रूपके सादृश्यादभेदव्यपदेशः, इह तु कार्यकारणभावादिति भिदा। रूपकातिशयाक्तेरस्य च वैलक्षणथं तत्रैवावादिष्म ॥
इत्यलङ्कारमणिहारे हेतुसरश्चतुरधिकशततमः.