________________
346
अलंकारमणिहारे
मार्थमागतं च जनं सुखयति । अत्रापि हेतुफलयोर्भगवत्सुख- . प्रापणयोस्साहित्येन वर्णनम् । पूर्वोदाहरणेषु फलं चतुर्थीतुमुन्भ्यां साक्षानिर्दिष्टम् । अत्र तु गम्यमानं तदिति विशेषः । ननु काव्यलिङ्गतोऽस्य को भेद इति चेत् उच्यते-काव्यलिङ्गे हेतुहेतुमतोरुपपादकोपपाद्यभावः, इह तु प्रयोजकप्रयोज्यभावो विच्छित्याधायकः । हेतोर्गम्यतायामेव चारुतातिशयादलंकारत्वं न तु साक्षात्तद्वाचकपदोपादाने इति तूभयोस्तुल्यमेव । अत्रोदाहरणे उपमांसकीर्णत्वं च विशेषः ॥
यथावा--
श्रीनिधिमुपेक्षमाणस्त्वां भवमेवोपधावति पुमान्यः। फलमस्येदं भूतिं विन्दन् भ्राम्यति समं पिशाचैर्यत् ॥ १९९७ ॥
श्रीनिधि सपन्निधानं श्रीनिवासं च त्वां उपेक्षमाणः पुमान् भवं संसारमेव पशुपतिमेव उपधावति सेवते तस्य इदमेव फलं-यदयं पुमान् भूतिं संपदं विन्दन् ‘लक्षणहेत्वोः' इति हेत्वर्थे शता। हेतुरिह फलम् । संपदं प्राप्तुमित्यर्थः । पक्षे भूति भस्म विन्दन् प्राप्नुवन् भस्मोद्धूळितस्सन्नित्यर्थः । पिशाचैस्सम तुल्यं यथास्यात्तथा, अन्यत्र रुद्रपरिवारैः पिशाचर्दैवयोनिविशेषैः समं साकं भ्राम्यतीति यत् एतदेव तस्य फलमित्यर्थः । अत्रापि हेतुहेतुमतोर्भवाश्रयपरिभ्रमणयोर्वर्णनं श्लेषसंकीर्णम् ॥
केचि तुमतो हेतोश्चैक्यं हेतुं बुधा जगुः ।
कार्यकारणयोरभेदवर्णनं हेत्वलंकार इति केचिप्राचीना श्रुवन्ति स्मेत्यर्थः ॥