SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ हेतुसरः (१०४) 345 त्वयि सम्राजि करणत्रयसारूप्येण भक्तिं विधानः तत्क्रतुनयात्साम्राज्यवैभवमश्नुत इति भावः । अन्यत्र हे सम्राडिति सम्राट्छब्दस्यैव संबोधनम् । यः पुमान् त्वयि सम्राट्छब्दे इत्यर्थः। भावकर्मणोः भावे कर्मणि च एकं प्रत्ययं ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च' इति विहितं ध्यअप्रत्ययं आतनुते विधत्ते स पुमान् वृद्धं वृद्धिर्यस्याचामादिस्तबद्धम्' इति विहितवृद्धसंक्षकं सर्वे वर्णाः अक्षराणि गुरवो यस्य तत्तथोक्तं साम्राज्यपदं साम्राज्यशब्दं लब्धुमर्हति । यस्सम्राट्छब्दात् ज्यअं विधत्ते स पुमान् वृद्धं सर्ववर्णगुरु त्र साम्राज्यमिति पदं प्राप्नोती. त्यर्थः । साम्राज्यमिति पदस्य उक्तरीत्या निष्पन्नस्य वृद्धत्वात्सर्ववर्णगुरुत्वाच्च तथोक्तिः । अत्र पक्षद्वयेऽपि सम्राजि प्रत्यय. विधानस्य हेतोस्साम्राज्यपदलाभरूपहेतुमता सह वर्णनम् ॥ यथावा--- सामोदसौम्यसुमनास्सत्तरुरिव सुफलदरशुभच्छायः । स्वपदोपनतं सुखयति अगवान् संसृतिगतागतश्रान्तम् ॥ १९९६ ॥ सामोदं च सौम्यं अनुग्रं च सुमनः शोभनं मनः यस्य सः। सामोदाः सौम्या: सुमनसो देवाः नित्यसूरयो वा यस्मात्स इति वा । पक्षे ससौरभसुकुमारकुसुम इत्यर्थः । सुफलदः निश्श्रेयसपर्यन्तसकलफलप्रदः । अन्यत्र फलानि स्वपरिणतानि ददातीति तथोक्तः । अनघा सर्वदुःखनिवर्तिनी छाया दीप्तिः अना. तपश्च यस्य सः भगवान् सत्तरुरिव माकन्दादिशुभवृक्ष इव संसृतिगतागतेन संसारयातायातेन, अन्यत्र सम्यक् सृती मार्गे गतागतेन श्रान्तं स्वपदोपनतं स्वचरणशरणागतं स्वमूले विश्रा ALANKARA-III. 44
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy