SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ 344 अलकारमणिहारे शुभा या जनकभूः सीता तस्याः हरः दशास्यः येन कोसलराजा अवधि अहन्यत स एव कोसलराट् दाशरथिः असः स न भवतीत्यसः अकोसलराजरूप इति यावत् । ‘एतत्तदोः' इति सूत्रे ‘अनञ्समासे' इति पर्युदासान्न तच्छब्दस्य सुलोपः । पक्षे असः सवर्णरहितः कोसलराट् कोलराट् । पुरा वराहश्रेष्ठस्सनित्यर्थः। तारक्षं शुभजनकभूहरं शुभजनिका जगत्क्षेमप्रदा या भूः पृथ्वी तस्याः हरमित्यर्थः । हिरण्याक्षं जगतां शुभाय कल्याणाय अवधीत् । अत्र रावणहिरण्याक्षवधलक्षणहेतुना सह जगच्छुभलक्षणहेतुमतः प्रतिपादनम् ॥ यथावा यस्त्वयि सम्राट प्रत्ययमातनते आवकर्मणोरेकम् । सोऽर्हति साम्राज्यपदं लब्धं वृद्धं समस्तवर्णगुरु ॥ १९९५॥ हे सम्राट् राजाधिराज हे भगवन्! 'मो राजि समः क्वो' इति समो मकारस्य मकार एव । नानुस्वारः ‘सम्राजोऽग्नीन्द्रविष्ण्वळ यश्च स्यान्मण्डलेश्वरः' इति रत्नमाला। 'एष ब्रह्मलोकस्सम्राडिति होवाच । राजाधिराजस्सर्वेषां विष्णुर्ब्रह्ममयो महान्' इत्यादिप्रमाणान्यत्रानुसंहितानि । यः पुमान् त्वयि विषये भावकर्मणोः मनःकर्मणोः । इदं वचसोऽप्युपलक्षणम् । एक एकरूपं 'वचस्येकं मनस्येकं कर्मण्येकं महात्मनाम्' इत्युक्तरीत्या अविसंवादीत्यर्थः । प्रत्ययं विश्वासं ध्यानं वा आतनुते । स पुमान् वृद्धं अभिवृद्धिमत् समस्तैः वर्णैः ब्रह्मक्षत्रादिभिः गुरु श्रेष्ठं साम्राज्यपदं आधिराज्यस्थानं लब्धं अर्हति ।
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy