________________
हेतुसरः (१०४)
343
प्रदीप इत्यर्थः । तमसः तमोगुणस्य तिमिरस्य च विधूत्यै तिरस्काराय विभाति । अंत्र प्रकृताप्रकृतगोचरश्लेषे भगवद्भक्तप्रकाशस्य तदीयमहादीपप्रकाशस्य च हेतोः तमोविधूतेः फलस्य च सहवर्णनम् ॥
यथावा
ख्यातो दिव्याजनधरवर्तितया येन दृशि विनिहितस्त्वम् । स खलु सुहगजलोचन वेत्तुं शक्रोति गूढमप्यर्थम् ॥ १९९३ ॥
दिव्यः यः अञ्जनधरः अञ्जनाद्रिः तस्मिन् वर्तत इति तथोक्तः । तस्य भावः तत्ता तया । पक्षे द्रिव्यं श्लाध्यं यत् अञ्जनं तस्य धरा धारयित्री वार्तः नयनाञ्जनलेखा तस्याः भावः तत्ता तया ‘वर्तिर्भेषजनिर्माणनयनाञ्जनलेखयोः' इति विश्वमेदिन्यौ । ख्यातः त्वं येन सुदृशा हाश लोचने विनिहितः दृष्ट इति यावत् स सुदृक् ज्ञानी । पक्षे परोक्षवस्तुसाक्षात्कारक्षमदृष्टिरित्यर्थः । गूढमपि अर्थ शास्त्रतत्वार्थ पक्षे निधिरूपं धनं वेत्तुं ज्ञातुं शक्नोति खलु । अत्र श्रीनिवासदर्शनतत्त्वार्थवेदनयोः अञ्जनवर्तिनयनन्यासनिधिदर्शनयोश्च श्लिष्टयोर्हेतुहेतुमतोस्सहवर्णनम् ॥
यथावा
शुभजनकभूहरोऽवधि येन दशास्यस्स एव कोसलराट् । अवधीच्च हिरण्याक्षं तादृक्षमसश्शुभाय किल जगताम् ॥ १९९४ ॥