SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ अलङ्कारमणिहारे तश्च पङ्कः कर्दमः कलुषं च यस्य तत्तथोक्तं विरचयितुं कतकतां पङ्किलाम्बुप्रसादकवृक्षविशेषफलतां धत्ते । अहो आश्चर्यमेतत् । यद्गारुत्मतं श्रीनिवासतां प्राप्य कतकतां धत्त इति । मरकतकमिति पदं अमराद्यतां मश्च रश्च मरौ आद्यौ वर्णो यस्य तत् मराद्यं तन्न भवतीत्यमराद्यं तस्य भावः तत्ता तां प्रपद्य कतकतां धत्ते मरकतकशब्द: प्राथमिकमकाररेफयोरुद्वासने कतकमिति निष्पद्यत इत्यर्थान्तरं च चमत्कारि । अत्र कतकताधारणस्य हेतोः भुवनपङ्काधः करणेन हेतुमता सह वर्णनं श्लेषमूलकविरोधोत्तम्भितम् ॥ यथावा 342 प्राप्तश्शुभवर्तित्वं सुश्रीराज्याभिषेकतो भगवन् । सुमहानाकुलदीपस्त मोविधूत्यै विभाति भवदीयः ।। १९९२ ॥ हे भगवन् शुभे वर्तत इति शुभं वर्तयतीति वा शुभवर्ती तस्य भावः शुभवर्तित्वम् । पक्षे शुभा वर्तिः दशा यस्य तत्त्वं ' वर्तिदपदशगात्रलेपयोर्मणिरञ्जने' इति रत्नमाला | प्राप्तः राज्याभिषेकतः सुश्रीः । सुश्रीराज्येत्यत्र 'रो रि' इति रेफलोपे 'ठूलोपे' इति दीर्घः । पक्षे आज्याभिषेकतः सुश्रीः सुमहाः ना कुलदीपः इति छेदः । शोभनं महः उत्सवः यस्य स तथोक्तः 'नित्योत्सवो भवेत्तेषाम्' इत्युक्तरीत्या निरन्तरोत्सवशाली महातेजस्वीति वा । 'महरतूत्सवतेजसोः' इति सान्तनानार्थेष्वमरः । कुलदीपः स्वान्वयप्रकाशकः भवदीयः ना पुमान् । पक्षे भवदीयः सुमहांश्चासौ अनाकुलपिश्च अनश्वरः
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy