Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 325
________________ अलङ्कारमणिहारे तत्प्रचुरा आजि: युद्धं तत्र पटीयांसं 'तस्कराचरितो मार्गो नैष वीरनिषेवितः' इत्युक्तरीत्या चौर्यसमरपटुतरं पामरमुख्यं 'विवर्णः पामर' इत्यमरः । सन्नशस्त्रं विशीर्णास्त्रमिति तदर्थः ॥ काकुभ्यां विना योजनाभेदेनाथस्तर कल्पनेऽपीयं संभवति । यथा न त्वय्यनुरक्तोऽहं नीलामनुरञ्जयेय ननु राधे । वेद्मि न मय्यनुरक्तं त्वां नीलां रञ्जयन्तमेव हरे ।। १९४३ ॥ 316 अत्र त्वय्यनुरक्कोsहं नीलां नानुरञ्जयेयेति भगवता विवक्षिताया योजनायाः यथाश्रुतमेव योजनेन राधयाऽर्थान्तरं कल्पितमिति भवति कोक्तिः । यद्यप्येवंविधा वक्रोक्तिः प्राक्तनैरवनैर्वा न विवेचिता । तथाऽपि तादृशचमत्कृति सद्भावाद्वक्रोक्तिरेवेयमित्यस्माभिर्व्यवेचि ॥ इत्यलङ्कारमणिहारे वक्रोक्तिसरष्षण्णवतितमः . - अथ स्वभावोक्तिसरः (९७) जात्यादिस्थस्वभावोक्तिस्स्वभावोक्तिरितीर्यते ॥ जात्यादिनिष्ठस्वभाववर्णनं स्वभावोक्तिरित्यन्वर्थसंज्ञोऽलङ्कारः । आदिपदेन गुणक्रियाद्रव्याणि गृह्यन्ते ॥ यथा--- वत्सस्मरणप्रस्नुतसुपीवरोनीं विलोलतरसा

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358