________________
अलङ्कारमणिहारे
तत्प्रचुरा आजि: युद्धं तत्र पटीयांसं 'तस्कराचरितो मार्गो नैष वीरनिषेवितः' इत्युक्तरीत्या चौर्यसमरपटुतरं पामरमुख्यं 'विवर्णः पामर' इत्यमरः । सन्नशस्त्रं विशीर्णास्त्रमिति तदर्थः ॥ काकुभ्यां विना योजनाभेदेनाथस्तर कल्पनेऽपीयं संभवति । यथा
न त्वय्यनुरक्तोऽहं नीलामनुरञ्जयेय ननु राधे । वेद्मि न मय्यनुरक्तं त्वां नीलां रञ्जयन्तमेव हरे ।। १९४३ ॥
316
अत्र त्वय्यनुरक्कोsहं नीलां नानुरञ्जयेयेति भगवता विवक्षिताया योजनायाः यथाश्रुतमेव योजनेन राधयाऽर्थान्तरं कल्पितमिति भवति कोक्तिः । यद्यप्येवंविधा वक्रोक्तिः प्राक्तनैरवनैर्वा न विवेचिता । तथाऽपि तादृशचमत्कृति सद्भावाद्वक्रोक्तिरेवेयमित्यस्माभिर्व्यवेचि ॥
इत्यलङ्कारमणिहारे वक्रोक्तिसरष्षण्णवतितमः .
-
अथ स्वभावोक्तिसरः (९७)
जात्यादिस्थस्वभावोक्तिस्स्वभावोक्तिरितीर्यते ॥
जात्यादिनिष्ठस्वभाववर्णनं स्वभावोक्तिरित्यन्वर्थसंज्ञोऽलङ्कारः । आदिपदेन गुणक्रियाद्रव्याणि गृह्यन्ते ॥
यथा---
वत्सस्मरणप्रस्नुतसुपीवरोनीं विलोलतरसा