SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ वक्रोक्तिसर: (९६) अत्र गोपाल इत्यादि गौरीपरिहासवाक्यं कृष्णाभिप्रायगर्भ पशूनां पतिः क्व वेत्यादिना महेश्वरवृत्तान्ताविष्करणाभिप्रायपरतया श्रिया योजितम् ॥ 315 काका यथा वेगादागाः किं वा चिकीर्षसे कृष्ण ननु न जानेऽहम् । न विजानासि नतरित्याश्लिष्यन् हरिजयति गोपीम् ॥। १९४१ ॥ अत्र कस्य कार्यस्य चिकीर्षया तव वेगादागमनमिति न वेद्मति ऋजुमतितयाऽनुयुञ्जानां व्रजललानां प्रति न विजानानासीति काक्का अर्थान्तरकल्पनम् ॥ काकुविकृतश्लेषाभ्यां मिळिताभ्यामनीयं भवति । यथा प्रचुराजिपटीयांसं दाशरथे दाशरथे विप्रवर्णमुख्यं माम् । विद्धि प्रसन्नशस्त्रं बहुमन्ये भृगुज साधु विप्रं त्वाम् ॥। १९४२ ॥ अयं भार्गवराघवयोस्संवादरूपश्श्लोकः । तत्र प्रचुरसमरपटुतरं ब्रह्मवर्णप्रमुखं निर्मलास्त्रं मां विद्धीति स्वस्य दुर्जयत्वमहीयस्त्वाद्यभिप्रायेण भार्गवोक्तस्य चरणत्रयस्य' हे भृगुज ! साधु विप्रं त्वां बहुमन्ये इति काका अहो तव ब्राह्मण्यमित्या - कृतगर्भयाऽन्यधा योजनं भगवता राघवेण कृतम् । अत्रैव हे भूगुज ! त्वां साधु सम्यक् बहु बहुलं च विप्रं विगतप्रवर्णे मन्ये इति प्रवर्णोद्धारेणार्थान्तरकल्पनं च । तथा सति चुराजिपटीयांसं विवर्णमुख्यं सन्नशस्त्रमिति च निष्पद्यते । चुरा चौर्य
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy