________________
314
अलकारमणिहारे
ताऽसि वराहेण कृष्णेन शतबाहुना' इति श्रुतेः । सः तृषाकपिः भगवान् विष्णुरेव 'हरविष्णू वृषाकपी' इत्यमरः । त्रिजगतां नाथ इत्यभिप्रायपरतया योजिता । अत्र लकारस्योद्वापमात्रमिति विशेषः ॥
यथावा -- शिव एव हि लोकस्याधीश इति त्वं ब्रवीषि ननु विद्वन् । वाचालोच्युत एव स इति वद तत्त्वं स्वमेव जानासि ॥ १९३९ ॥ . __ वाचालः वाचाटः त्वं शिव एव हि लोकस्याधीश इति ब्रवीषि ननु अच्युत एव सः लोकस्याधीश इति वद । सः शिवः अच्युत एव अच्युतात्मक एव । अच्युत एव स इति वा योजना। अच्युत एव शिवो मङ्गळमूर्तिः 'शाश्वतं शिवमच्युतम्' इति श्रुतेः । अतएव लोकरयाधीश इति वद । पक्षे पाचेति भिन्नं पदम् । सः शिवः लोच्युत एव लोकारच्यवनं प्राप्त एव लोकस्याधीशः कस्याधीशः न कस्याप्यधीश इति वाचा वद । तत एव तत्वं जानासि सर्वेश्वरेश्वरे भगवति नारायणे जाति कस्यायमाधिपतिस्स्यादिति भावः । अत्रापि वक्रोतौ वर्णोद्वापमात्रम् ॥
सर्वमिदं शब्दश्लेषमूलाया वक्रोक्तेरुदाहरणम् । अर्थश्लेषमूलाया यथा- गोपालः क पशूनां पतिः क वा वाद्य तन्वि गौश्वरति । तद्वेद वृषभवाहन इति नर्मवचोऽवता. दुमारमयोः ॥ १९४० ॥