________________
वक्रोक्तिसरः (१६)
313.
अत्र त्वजल्पितयोः मीनेक्षणे कमनमिति पदयोः स्थितं में मकार दं दकारं जल्प मकारं दकारतयोच्चारयेत्यर्थः । तदा दीनेक्षणे कदनमिति निष्पद्यते । त्वया वञ्चितां मां दीनेक्षणे इति संबोधय । कदनं मनोव्यथेति यावत् । पुरत एव स्थितं एवं वञ्चयति त्वाय स्पष्टमेवाग्रे स्थितं न तु मीमांसनीयमिति भावः । अत्र मकारच्यावनेन तत्रैव दकारविन्यसनेन च विकृतेन श्लेषेणार्थान्तरपरिकल्पनम् ॥
यथावा
यश्शुक्लभासितरुचिर्येन वलक्षश्रियोदधारि ग्लौः। स वृषाकपिस्त्रिजगतां नाथोऽलं वद पुनस्स एव भवेत् ॥ १९३८॥ .. अयमपि शैववैष्णवोक्तिप्रत्युक्तिरूप एव । यः शुक्ला शुभ्रा भासीती भसितसंबन्धिनी रुचिः यस्य स तथोक्तः धवळभस्मोद्धूलित इति यावत् । वलक्षश्रिया स्वतः पाण्डुरमूर्तिना येन ग्लौः शशाङ्कः उदधारि उच्छृतत्वेन धृतः शिरसा धृत इति यावत् । सः वृषाकपिः हरः त्रिजगतां नाथ इत्यभिप्राय. वती शैवोक्तिः । वैष्णवेन पुनः–अलं पुनर्बद पर्याप्तं पुनर्बहि पर्यालोच्य ब्रूया इत्यर्थः । स एव त्वदुक्त एव त्रिजगतां नाथो भवेदित्यन्वारुह्य वद अलं लकाररहितं वदेत्यर्थान्तरगर्भीकारात्त्वदुक्तवाक्ये लकारलोपेन · यः शुकभासितरुचिः येन वक्षश्रिया उदधारि गौरिति निष्पाद्य यः शुक इव भासिता त्रिर्यस्य स तथोक्तः मरकतश्यामल हात भावः । वक्षसि श्रीः यस्य वक्षश्श्रीः तथोक्तेन येन गौः भूः उधारि उद्धृता 'उद्ध
ALANKARA-III.
.40