Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 334
________________ अत्युक्तिसरः (:००) 325 यथावा कोऽपि स पुमान्विजयतां यद्रण्टा श्रुतिशिरोगुरुर्भूत्वा । उदजीवयदुक्तयमृतैर्दुर्मतकथकविषमूछितं भुवनम् ॥ १९६० ॥ यस्य श्रीनिवासस्य घण्टा की श्रुतिशिरागुरुभूत्वावित्रासिनी विबुधवैरिवरूथिनीनां पद्मासनेन परिचारविधौ प्रयुक्ता। उत्प्रेक्ष्यते भुवि जनैरुपपत्तिभूम्ना घण्टा हरेस्समजनिष्ट यदात्मनेति ॥ इत्युक्तरीत्या निगमान्तमहादेशिकत्वेनावतीर्येत्यर्थः। शिष्टं स्पष्टम् । अत्राङ्गिभूतस्य श्रीनिवासस्य महोत्कर्षप्रतिपिपादयिषया तद्धण्टावतारस्य भगवतो निगमान्तदेशिकस्य चरितमङ्गतया निबद्धम् ॥ इत्यलङ्कारमणिहारे उदात्तालङ्कारसर एकोननवतितमः. अथात्युक्तिसरः (१००) अद्भुतातथ्यशौर्यादिवर्णनाऽत्युक्तिरिष्यते । अद्भुतस्यासत्यस्य असंभावितस्य शौर्यादेवर्णनमत्युक्ति - मालङ्कारः। आदिशब्देनौदार्यकर्त्यादर्ग्रहणम् ॥ यथा बहिरन्तर्जुलता श्रीनाथ त्वत्तेजसाऽद्भुततमेन । ब्रह्माण्डमूषिकायां रविरुचिरावर्त्य कनकगिरिररचि ॥ १९६१॥

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358