________________
अत्युक्तिसरः (:००)
325
यथावा
कोऽपि स पुमान्विजयतां यद्रण्टा श्रुतिशिरोगुरुर्भूत्वा । उदजीवयदुक्तयमृतैर्दुर्मतकथकविषमूछितं भुवनम् ॥ १९६० ॥
यस्य श्रीनिवासस्य घण्टा की श्रुतिशिरागुरुभूत्वावित्रासिनी विबुधवैरिवरूथिनीनां पद्मासनेन परिचारविधौ प्रयुक्ता। उत्प्रेक्ष्यते भुवि जनैरुपपत्तिभूम्ना घण्टा हरेस्समजनिष्ट यदात्मनेति ॥ इत्युक्तरीत्या निगमान्तमहादेशिकत्वेनावतीर्येत्यर्थः। शिष्टं स्पष्टम् । अत्राङ्गिभूतस्य श्रीनिवासस्य महोत्कर्षप्रतिपिपादयिषया तद्धण्टावतारस्य भगवतो निगमान्तदेशिकस्य चरितमङ्गतया निबद्धम् ॥
इत्यलङ्कारमणिहारे उदात्तालङ्कारसर एकोननवतितमः.
अथात्युक्तिसरः (१००) अद्भुतातथ्यशौर्यादिवर्णनाऽत्युक्तिरिष्यते ।
अद्भुतस्यासत्यस्य असंभावितस्य शौर्यादेवर्णनमत्युक्ति - मालङ्कारः। आदिशब्देनौदार्यकर्त्यादर्ग्रहणम् ॥
यथा
बहिरन्तर्जुलता श्रीनाथ त्वत्तेजसाऽद्भुततमेन । ब्रह्माण्डमूषिकायां रविरुचिरावर्त्य कनकगिरिररचि ॥ १९६१॥