Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 339
________________ 330 अलङ्कारमणिहारे अत्र जनस्सर्वान् पुमर्थान् अद्यते याच्यत इति व्युत्पादितस्य जनार्दननाम्नः उक्तरीत्या योगतोऽर्थान्तरकल्पनम् ॥ यथावा अतिविशदमधुरतावकवचोरसस्ते यतस्सुधाब्धिसुते। तेनैव गुणेन सिता बभूव तच्छर्करा सितेति जगे ॥ १९६८ ॥ हे सुधाब्धिसुते! इदं तद्वाग्रसेऽपि विवक्षिततद्गुणानुवर्तमाभिप्रायवम् । शर्करा तेनैव उक्तविशेषण तावकवचोरसेनैव की गुणन करणभूतया रज्ज्वा सिता अपराधानुगुणशिक्षणाय सन्दानिता। परमार्थतस्तु-तेनैव गुणेन विशदिन्ना मधुरिम्णा च गुणेनैव सिता विशदा बद्धा च ‘षिञ् बन्धने' कर्मणि क्तः संबद्धेत्यर्थः। उक्तविशेषणविशिष्टश्रीवाग्रसचौर्यादेवास्या वैशद्यमाधुर्यलाभश्शर्कराया इति भावः। अतः एवं बद्धत्वादेव सि. तेति जगे अगीयत 'शर्करा सिता' इति नैघण्टु कैरिति भावः । अत्र सितोत शर्करानाम्नो योगतोऽर्थान्तरकल्पनम् ॥ पदवीवशात्प्रविशतो यदभूचन्द्रस्य विश्रमस्थानम् । त्वदुदवसितशीर्षगृहं तदुच्यते नाथ चन्द्रशालेति ॥ १९६९ ॥ अत्र चन्द्रशालोत नानोऽर्थान्तरकल्पनं योगेन ॥ यथावा यद्विश्वनामरूपव्याकरणपटीयसी तव प्रेक्षा । तत्त्वां शेषगिरीश्वरममि सच्छाब्दितं हरे सत्यम् ॥ १९७० ॥ यथावा

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358