Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 319
________________ 310 अलकारमणिहारे प्रभायाः आश्लेषं संबन्धं मम घटयेत्यभिप्रायेण प्रयुक्तस्य सारसनाभाश्लेषमित्यादिवाक्यस्य सारसनाभस्य पद्मनाभस्य श्रीकृष्णस्य आश्लेषं उपगृहनं घटयेति श्लेषणार्थान्तरं प्रकल्प्य घटायतुमेवायं परिष्कारोद्योग इत्युत्तरं प्रौढया सैरन्ध्रया दत्तम् ॥ यथावा गोपालिके विलोकय किंचिदितः किं विलोकयाम्यलिके। गोपेत्यामन्त्रयसे गोपी मां मुग्ध गोप एव त्वम् ॥ १९३३॥ ___ अत्रात्मानं प्रति कटाक्षप्रसारं प्रार्थयमानेन हे गोपालिके गोपि इतः किंचिद्विलोकयेति भगवता श्रीनन्दनन्दनेनोक्तस्य गोपालिके विलोकयेति वाक्यस्य हे गोप आलके ललाटे किंचिद्विलोकयेति श्लेषेण प्रकल्प्यान्थमर्थ किं विलोकयाम्यलिके इत्याद्युत्तरं वितीर्ण विदग्धया व्रजवरारोहया । हे मुग्ध मूढ सुन्दरेत्याकूतं त्वमेव गोप इत्यन्वयः । नाहं गोपः किंतु गोपी। एवं स्त्रीपुंसभेदस्याप्यनवगमेन स्त्रियं पुंवाचकशब्देनामन्त्रयमाणस्त्वमेव पशुपाल इति भावः । यद्वा यथाश्रुतमेवान्वयः । एवं वदन् त्वं गोप एव । यदि नागरक एव भवेः कथमेवं ब्रूया इति भावः । गोपालकस्य स्त्री गोपालिका । पुयोगलक्षणङीषः ‘पालकान्तान' इति निषेधः । टापि 'प्रत्ययस्थात् ' इतीत्वम् ॥ यथावा कबळयितुं खलु शक्यो मया शुनासीर एव किमुतान्यः । नेष्टे ग्रसितुं सीरं श्वेति मुरं प्रति वदन् हरिर्जयति ॥ १९३४ ॥

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358