Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 317
________________ 308 अलङ्कारमणिहारे स्थेयमेवेत्यर्थान्तरविधानेन लक्ष्म्या उत्तरम् । हारेहारे प्रतिहारे इत्यव्ययीभावः । 'तृतीयासप्तम्योबहुलम्' इत्यम्भावाभावः ॥ यथावा सहजमरुदधिप एष त्वय्यतितृष्णस्सुधापयोधिसुते । सहजं मरौ दधि पिबन्नतितृष्ण इतीदमतितरां चित्रम् ॥ १९२९ ॥ ___अत्र सहोदरो मघवा यस्य स उपेन्द्रः त्वय्यतिमात्रस्पृह इत्यर्थकस्य सहजमरुदधिप इति भगवद्वाक्यस्य सहजं यथा स्यात्तथा मरुदेशे दधि पिबन् अतिवेलपिपास इत्यर्थान्तरकरणेन श्रिय उत्तरम् । इमानि ‘न कोधः कार्योऽम्बुधि' इत्यादीनि पद्यानि प्रणयकलहे श्रीश्रीवल्लभयोरुक्तिप्रत्युक्तिरूपाणि ॥ यथावा व्रजसमुखि न तिष्ठामि व्रजामि भो नन्दगोपवंशमणे । व्रजसि यदि त्वं नन्देत्कथमयमिति शौरिरग्रहीद्गोपीम् ॥ १९३० ॥ अत्र व्रजसुमुखीति गोपललनां प्रत्यभिमुखीकरणाय सम्बुसुचन्ततया भगवता प्रयुक्तस्य समस्तपदस्य समुखितया व्र. जसुमुख्या हे सुमुखि व्रज गच्छेति श्लेषेणार्थान्तरं परिकल्प्य न तिष्ठामि ब्रजामि भो नन्दगोपवंशमणे इति भगवन्तं प्रति वोत्तरं व्यतारि। तेनापि तया संबुद्धयन्ततया प्रयुक्तस्य नन्दगोपवंशमणे इत्यस्य समस्तस्य पदस्य हे गोपवंशमणे नन्द मोदस्व इति छेदेनार्थान्तरं प्रकल्प्य त्वं व्रजास यदि एवं वदन्तं मामुपेक्ष्य गच्छसिचेत् अयं त्वत्परिग्वङ्गमाभलष

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358