Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
AcharpenkaiamagranGamana
प्रथमः
प्रस्तावः।
श्री तस्मिन्द्वीपे षदखण्डविराजितं भरतामिक्षेत्रमष्टमीचन्द्रवदाकारसर्वसम्पद्भिःसर्वोत्तमं वर्त्तते । यस्मिश्चक्षेत्रेसिद्धाचलाभिधतीर्थ'अजितसेन वरिष्ठमलौकिकसम्पद्विराजितं सिद्धिस्थानंशरण्यजनपावकंप्रवरक्षेत्रं चकास्तितराम् । यत्र च गङ्गासिन्धुनामानौसरितौ चतुईशीलवती-|| | शसहस्रापगापरिवारपरिवृतेविद्यते । यस्मिश्चसार्द्धपञ्चविंशतिरार्यदेशाः सन्ति । इतरेचानार्यादेशाः । यस्य च मध्यभागे विचरितम् ।। शदवैभवमखिलर्द्धिसमापनविविधवनखण्डैस्तर्जितनन्दनवनशोभं नन्दनपुराभिधं नगरं जगजनचेतोहरं जगदेकप्रकाशकं तेजः
पुञ्जमिवयथार्थनामाऽभूत् । यच्च सदोपभोग्यभोगसुखशालिविविधवस्तुनिचयसमाकीर्णसर्वजनसन्तापहारकंसुशोभतेस्मप्रत्य॥ २॥
#हम् । यदीयसौन्दर्य विलोकितुस्वर्गिणोऽपि नभोऽङ्गणविमानवृन्दैर्व्याकुलयन्तिस्म । भूभामिन्या अद्वितीयविभूषणमिवसर्वजन
प्रेक्षणीयंकुण्डलीकृतभोगिभोगानुकारिणाप्तीवदृढतरविशालेनाऽभ्रंलिहेनवप्रेणपरितोवेष्टितंयद्वैरिवारैरलक्ष्यविभाति । यस्य प्राकारादहिभागेपाथोधिवेलेवसजलागाधापरिखासमन्ताद्विद्यते, तदुपरिभागेच सुवर्णमणिमयानिकपिशीर्षकाणिविराजन्ते, येनाऽसमयेऽपि विराजमानोवप्रोनागरिकाणां सहस्ररश्मिभ्रमंजनयति । यन्मर्भिप्रतिप्रदेशं महाशतघ्न्यः स्थापिताः शोभामात्र भेजुः। अन्यैरनुत्तमैरलङ्करणैर्विराजमानस्य यनगरस्य वैभवं निरीक्ष्य गरीयस्यपि दशानननगरी स्वसौन्दर्यगर्वत्यागं व्यतनोत् । द्वारिका सर्वसम्पदाढ्याऽपि यदीयलक्ष्मी विचिन्त्य महोदधौ झम्पापातं व्यधादिव । साचादमरगणनिषेव्याऽप्यमरपुरी तु | यत्सम्पदमहर्दिवं ध्यायतिस्म । चतुरशीतिविपणीविराजिते चैतस्मिन्नगरे धनदोपमाः सुकृतिनोऽनेके निवसन्तिस्म । दरिद्रजनानां सर्वथा यस्मिन्दरिद्रता दृश्यते । चतुर्भिर्वर्णाश्रमैः सततं यनगरं व्यराजत । यस्मिन्कृतनिवासै निगणैर्महादानी कर्णभूपोऽप्यजीयत । यदग्रे कनकाचलः समग्रधननिधानोऽप्यतीवकाठिन्य बिभर्ति, यत्रस्थितामेधाविनोनरा न किमपि कलई
॥२॥
For Private And Persone
n

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 244