Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 17
________________ ShriMahavir JanArchanaKendra Achanah Gyan किश्च-अस्तुता अपि तेकाव्ये, पश्यन्तिगुणमञ्जसा । दोषानाच्छादयन्त्येव, प्रकृतिः सा महात्मनाम् ॥७॥ तेषामतोऽभ्यर्थनया न हेतु-महाधियः केवलमर्थनीयाः। तेऽस्यप्रबन्धस्यपुरातनस्य, प्रवाचने वा श्रवणे विपश्चितः ॥८॥ तस्माद्भोः सहदयहृदयाः? कवीनां रसवद्वचो विलासाःसावधानतया श्रवणीयाः । यः कथाप्रबन्धोमधुरो भवति, तस्य रचनाऽपिहृद्यैवभवति, तथैवतद्वक्तानिपुणमतिरपिश्रोतानिपुणोयदि भवेत्तदोभयोःश्रमएवाऽवशिष्यते । उमयों पुण्ये तु सर्व समञ्जसमेवविभाव्यते । अथाऽसंख्यातद्वीपसागरमध्यवत्ती जम्बूवृक्षोपलचितः सर्वोत्कृष्टसम्पदावलीभिर्विराजितः समन्तावक्षयोजनविस्तीर्णः पार्वणचन्द्रवदाकारोजम्बूद्वीपाभिधेयोद्वीपोवर्तते । तस्यपूर्वार्द्धभागेचोत्तरकुरुनामक्षेत्रमस्ति, तस्मिञ्जाम्बूनदमयोनिभृतोद्दामभूरिरसोजम्बूतरुर्विलसति, सच जाम्बूनदाख्यसुवर्णेन सर्वतोव्याप्तिमानस्ति, सर्वासुदिक्षुतस्पमनो रमा पद्मवेदिका विराजते । तथैव तस्यमध्यपीठोपरितनभागेप्रमाणतएकयोजनविस्तीर्णोवटवृक्षोविलसति । तस्माद्योजन चतुष्टयोचोमणिमयैकोजम्बूवृक्षः समस्ति । तस्यमूलं वज्रमणिमयं, कन्दश्वारिष्टमणिमयः, स्तम्भश्च वैडूर्यमणिमयोऽस्ति । स भूरुहोमूलतश्चतुर्गव्यूतिप्रमाणस्तस्यचतस्रः शाखाः क्रोशद्वयविस्तृताः सन्ति । ताश्चपञ्चदशक्रोशप्रमिताउच्चवेचायामवेलक्ष्यन्ते। तदग्रमागेशाश्वतं श्रीसिद्धायतनं विराजते, यस्य रक्षणायाऽनाधिनामा महोमतप्रतापःसुरोनित्यंसन्निहितस्तिष्ठति । तस्यजम्बूवृत्तस्पशाखाप्रशाखाः सुवर्णमय्यः पत्राणिचा तानि वैडूर्य्यरत्नमयानि विभान्ति । सौवर्णोऽयंपादपोयशोभिक्ष्याऽतीय विख्यातोऽस्ति । यस्य च काञ्चनमयाः पल्लवाः प्रसिद्धिभाजःपुष्पाणि फलानि च सुन्दराणि सदैव शोभन्ते । इत्थं रमणीयवैभवः स पादपः शाश्वततेजःश्रिया प्रकाशते । यस्योपकण्ठेऽन्येनेकेभूरुहाविराजन्ते, तस्मात्तस्य जम्बूद्वीप इति संज्ञा बभूव । For Private And Personlige Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 244