________________
ShriMahavir JanArchanaKendra
Achanah
Gyan
किश्च-अस्तुता अपि तेकाव्ये, पश्यन्तिगुणमञ्जसा । दोषानाच्छादयन्त्येव, प्रकृतिः सा महात्मनाम् ॥७॥ तेषामतोऽभ्यर्थनया न हेतु-महाधियः केवलमर्थनीयाः। तेऽस्यप्रबन्धस्यपुरातनस्य, प्रवाचने वा श्रवणे विपश्चितः ॥८॥ तस्माद्भोः सहदयहृदयाः? कवीनां रसवद्वचो विलासाःसावधानतया श्रवणीयाः । यः कथाप्रबन्धोमधुरो भवति, तस्य रचनाऽपिहृद्यैवभवति, तथैवतद्वक्तानिपुणमतिरपिश्रोतानिपुणोयदि भवेत्तदोभयोःश्रमएवाऽवशिष्यते । उमयों पुण्ये तु सर्व समञ्जसमेवविभाव्यते । अथाऽसंख्यातद्वीपसागरमध्यवत्ती जम्बूवृक्षोपलचितः सर्वोत्कृष्टसम्पदावलीभिर्विराजितः समन्तावक्षयोजनविस्तीर्णः पार्वणचन्द्रवदाकारोजम्बूद्वीपाभिधेयोद्वीपोवर्तते । तस्यपूर्वार्द्धभागेचोत्तरकुरुनामक्षेत्रमस्ति, तस्मिञ्जाम्बूनदमयोनिभृतोद्दामभूरिरसोजम्बूतरुर्विलसति, सच जाम्बूनदाख्यसुवर्णेन सर्वतोव्याप्तिमानस्ति, सर्वासुदिक्षुतस्पमनो रमा पद्मवेदिका विराजते । तथैव तस्यमध्यपीठोपरितनभागेप्रमाणतएकयोजनविस्तीर्णोवटवृक्षोविलसति । तस्माद्योजन चतुष्टयोचोमणिमयैकोजम्बूवृक्षः समस्ति । तस्यमूलं वज्रमणिमयं, कन्दश्वारिष्टमणिमयः, स्तम्भश्च वैडूर्यमणिमयोऽस्ति । स भूरुहोमूलतश्चतुर्गव्यूतिप्रमाणस्तस्यचतस्रः शाखाः क्रोशद्वयविस्तृताः सन्ति । ताश्चपञ्चदशक्रोशप्रमिताउच्चवेचायामवेलक्ष्यन्ते। तदग्रमागेशाश्वतं श्रीसिद्धायतनं विराजते, यस्य रक्षणायाऽनाधिनामा महोमतप्रतापःसुरोनित्यंसन्निहितस्तिष्ठति । तस्यजम्बूवृत्तस्पशाखाप्रशाखाः सुवर्णमय्यः पत्राणिचा तानि वैडूर्य्यरत्नमयानि विभान्ति । सौवर्णोऽयंपादपोयशोभिक्ष्याऽतीय विख्यातोऽस्ति । यस्य च काञ्चनमयाः पल्लवाः प्रसिद्धिभाजःपुष्पाणि फलानि च सुन्दराणि सदैव शोभन्ते । इत्थं रमणीयवैभवः स पादपः शाश्वततेजःश्रिया प्रकाशते । यस्योपकण्ठेऽन्येनेकेभूरुहाविराजन्ते, तस्मात्तस्य जम्बूद्वीप इति संज्ञा बभूव ।
For Private And Personlige Only