________________
www.kobahirihora
Acharya
Kasagaran Gyanmar
श्री
भजितसेन शीलवतीचरितम्।
'यज्ञानमानुः प्रथितः पृथिव्या, प्रदर्शयत्यात्मसुखस्यमार्गम् । तं देवदेवं जनतातयोई, श्रीवर्द्धमानं सततं नमामि ॥ ५॥ प्रथमः येषां प्रभाव प्रकटः पृथिव्या, विज्ञानमूलः कृतकर्मनाशः। शेषा अशेषार्थकरा जिनेन्द्रा-भवन्तु वो विघ्नविघातदचाः॥६॥ प्रस्तावः। सूत्राणि योऽसूत्रयदद्धतानि, शिश्राय यं लब्धिमणः प्रशस्तः।आद्यश्च योऽभूगणघारकाणां, श्रीगौतमंतं प्रथम स्मरामि ॥७॥ प्रसादतो यस्य जडोऽपिलोके, विभाति विद्वलनसत्समाजे । गुरुप्रभावं गुरुमादिमं तं, स्तवीम्यहं भक्तिभरेण नित्यम् ॥ ८॥ * विशुद्धपद्मासनसंस्थिताया, वाग्वादिनी व्याप्तजगत्प्रदेशा। जाड्यान्धकारक्षतिकारिणीस्ता-त्सा सर्वदासौख्यकरीसरस्वती ॥६॥ वाचां विलासा विलसन्ति येषां, जगत्यनन्यं रसमर्पयन्तः । विज्ञानिनस्ते हरिभद्रमुख्या-जयन्तुसर्वेष्टकराः कवीन्द्राः ॥१०॥ विशदशीलसरोजसुवासितं, मथितदुर्व्यसनव्रततिव्रजम् । अजितशीलवतीप्रथितं परं, चरितमद्भुतकारि तनोम्यहम् ॥ ११ ॥
इदं परमपवित्रमजितसेनशीलवतीचरित्रं श्रोतृणामनुत्तरं कूरणावतंसं बुद्धिगम्यमुत्सारितपरधर्मवृत्तान्तमतीवविचित्रकथं | समस्ति । यस्य चरित्रस्याग्रे सुधालाभोत्साहोऽपि विफलोवर्त्तते । यतोऽयंकथाप्रवन्धा-सर्वज्ञवाक्सुधासिन्धो-रसनिष्यन्दवाहकः । प्रकाशितोऽस्ति लोकानां, भवदाहप्रशामकः ॥ १॥ एवं स्थितेऽस्य ग्रन्थस्य, वाचने श्रवखे तथा । दुर्जनानैव योग्याः स्यु-र्दोषदृष्टिपरायणाः ॥२॥ यतः-स्तुतोऽपि दुर्जनः काव्ये, दोषमेवप्रकाशयेत् । निन्दितस्तुविशेषेण, युक्ताऽतोस्यावधीरणा ॥३॥ अथवा-निन्दायामात्मदौर्जन्यं, स्तवेऽप्यनृतभाषणम् । मवेडुर्जनवर्गस्य, ततो युक्ताऽपकर्णना ॥४॥ ततोऽस्य योग्या लघुकर्मदेहिनो-भव्याभवाम्भोधितितीर्षवःस्युः। श्रुतौ सदासद्गुणवीक्षणोत्सुका, भवन्ति हि प्रार्थनमन्तरापि ॥५॥ अथवा-तेषां निन्दाविधानेहि, महापापं प्रजायते । स्तवाऽपिदुष्करस्तेषां, मादृशैर्जडबुद्धिभिः ॥६॥ ॥१॥
For Private And Personale Only