________________
॥अहम् ॥ ॥ शास्त्रविशारदजैनाचार्ययोगनिष्टाध्यात्मज्ञानदिवाकरपरमपूज्यसद्गुरुश्रीमद्बुद्धिसागरसूरीश्वरपादपत्रेभ्योनमः ॥
॥ तपोगणगगनदिनमणिश्रीमद्-अजितसागरसूरिप्रणीतम् ॥
॥श्रीअजितसेनशीलवतीचरितम् ॥
श्रीमन्तमाय जिनपुङ्गवाना-माद्यं नृपाणां व्यवहारबोधकम् । आद्य कलाकर्मसु नाभिमूर्नु, नमाम्यहं मोक्षसुखैकहेतुकम् ॥१॥ श्रीशान्तिनाथः शिवशर्मदाता, त्राता जनानाश्रितपादपद्मान् । पोतायमानो भववाद्धिंगाना, श्रेयःश्रियं सन्ततमातनोतु ॥२॥ शिवाङ्गजातोपि शिवप्रदायी, कृष्णाङ्गकोऽपि श्रितभव्यतायी। निर्मूलिताऽनङ्गमदोऽपि सम्मदः, श्रीनेमिनाथोऽस्तु मुदे सतामिह ।। फणीश्वरोद्दीप्तमणिप्रभाभि-जिष्णुमूर्द्धा कमठोपकर्ता । सुरासुरैर्वन्दितपादपद्मः, श्रीपार्श्वनाथः शिवतातिरस्तु ॥४॥
For
And Persone
ly