Book Title: Agamoddharak Kruti Sandohasya Part 05
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ 224 . आगममहिमा - न दृष्टो न वित्तो न च जगति वृत्तान्तसरणिर्न वार्ता नो शब्दोऽणुरपि च यस्यास्ति विदितः / न देशो न वेषो न च परिकरस्यांशसरणं कथं ज्ञेयो देवो यदि च न भवतीहागमगतिः // 160 / / न यो द्रव्यं दत्ते. द्रविणनिचयं नो न च गृहं, न योषां नो पुत्रं न च शरणदो रोगनिचितौ / . . न यस्त्राताऽरण्ये न भवति चरणे विक्रमपराभवे त्राता साधुर्भवति शरणं ह्यागमबलात् // 161 / / यो द्रव्यं ललनां विचित्रविषयान् स्वातन्त्र्यमुत्सादयेदाहारेऽपचितिं सदैव गमयेन्निष्काशयेत् कल्पनाम् / दाने शीलधृतौ तपस्यनुपमे सद्भावनाभावने, भव्यं धर्मवरो नुदन् शरणदो मान्यो भवेदागमात् // 162 / / मुक्तिनँव भवेद् भवभ्रमिभृतां कालादनादेवुवात् , सत्यं स्यात्तदिदं यदा नहि भवेन्नाशो ध्रुवाज्ञानगः / सर्वेषां भवधारिणां विषयजं सौख्यं सनानादिजं, युग्मं नश्यदुपेक्ष्यते यदि पुनश्चेज्जैनमार्गागमात् // 163 / / सत्स्वप्यसङ्ख्येषु सदा सुरेषु, तथैव तिर्यक्षु च नारकेषु / सदृक्षु तीर्थं न मतं जिनेशैस्तत्रास्ति यन्नो जिनपागमोदितिः / / 164 // मोक्षे चतुर्गतिभृतां प्रचुरा समीहा, वीर्यं च भूरि तनुवागहृदयोद्भवं च / . . सम्यग्दृशः सुमतयश्च तथापि तं न, लब्धा न कोऽपि महिमाऽद्भत आगमानाम् // 165 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247