Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 20
________________ अध्ययनं-१८,[नि.४०४] १७ प्रस्तावान्महावीर एव, ‘परनिर्वृत्तः' कषायानलविध्यापनात्समन्ताच्छीतीभूतो विद्याचरणाभ्यामर्थात् क्षायिकज्ञानचारित्राभ्यां संपन्नो-युक्तो विद्याचरणसंपन्नोऽत एव 'सत्यः' सत्यवाक्, तथा सत्यः-अवितथस्तात्त्विकत्वेन परे-भावशत्रवस्तेषामाक्रमणं आक्रमः-अभिभवो यस्यासौ सत्यपराक्रम इति सूत्रार्थः । तेषां च फलमाहमू.(५८४) पडति नरए घोरे, जे नरा पावकारिणो। दिव्वं च गई गच्छंति, चरित्ता धम्ममारियं । वृ. 'पतन्ति' गच्छन्ति 'नरके' सीमन्तकादौ 'घोरे' नित्यान्धकारादिना भयानके ये नराः उपलक्षणत्वात्स्यादयो वा पातयति नरकादिषु जन्तुमिति पापं तच्च हिंसाधनेकधा, इह त्वसत्प्ररूपणैव, तत्कर्तुम्-अनुष्ठातुं शीलमषामिति पापकारिणः, येत्वेवंविधा न भवन्ति ते किमित्याह'दिव्यां च गति' देवलोकगतति, चशब्दः पुनरर्थे, स च पूर्वेभ्यो विशेषद्योतकः, 'गच्छन्ति' यान्ति 'चरित्वा' आसेव्य धर्म:- श्रुतधर्मादिरनेकविधः, इह च सत्प्ररूपणारूपः श्रुतधर्म एव तं, आर्य-प्राग्वत्, तदयमभिप्रायः-असत्प्ररूपणापरिहारेण सत्प्ररूपणापरणैव च भवता भवितव्यमिति सूत्रार्थः ।। कथं पुनरमी पापकारिणा इत्याहमू. (५८५) मायावुइयमेयं तु, मुसा भासा निरत्थिया। संजममानोऽवि अहं, वसामि इरियामि य॥ वृ. मायया-शाठ्यन वुइयंति-उक्तं मायोक्तम् एतत्' यदनन्तरं क्रियादिवादिभिरुक्तं, 'तुः' एवकारार्थो भिन्नक्रमश्च मायोक्तमेव, अतश्चैतत् 'मृषा' अलीका 'भाषा' उक्तिः 'निरर्थिका' सम्यगभिधेयशून्या, तत एव च 'संजममानोऽवि'त्ति 'अपिः' एवकारार्थस्ततः संयच्छन्नेवउपरमन्नेव तदुक्त्याकर्णनादितः 'अहम्' इत्यात्मनिर्देशे विशेषतस्तत्स्थिरीकरणार्थम्, उक्तं हि-"ठियतो ठावए परं"ति, ‘वसामि' तिष्ठामि उपाश्रय इति शेषः, 'इरियामि य'त्ति ईरे चगच्छामि च गोचरचर्यादिष्विति सूत्रार्थः । इदमपि सूत्रं प्रायो न दृश्यते। कुतः पुनस्त्वं तदुक्त्याकर्णनादिभ्यः संयच्छसीत्याह-अनन्तरसूत्राभावे च यदुक्तं चतुभिः स्थानैर्मेयज्ञाः किंप्रभाषन्ते इति, तत्कुत इत्याहमू. (५८६) सव्वे ते बिइया मज्झं, मिच्छादिट्ठी अनारिया। विज्जमाणे परे लोए, सम्मं जाणामि अप्पगं। वृ.'सर्वे' निरवशेषाः 'ते' क्रियादिवादिनः 'विदिताः' ज्ञाता मम, यथाऽमी 'मिच्छद्दिट्ठि'त्ति मिथ्या-विपरीता परलोकात्माद्यपलापित्वेन दृष्टि:-बुद्धिरेषामिति मिथ्यादृष्टयः तत एव, 'अनार्या' अनार्यकर्मप्रवृत्ताः, कथं पुनस्त एवंविधास्ते विदिता इत्याह-'विद्यमाने' सति 'परलोके' अन्यजन्मनि 'सम्यग्' अविपरीतं 'जानामि' अवगच्छामि 'अप्पगं'ति आत्मानं, ततः परलोकात्मनोः सम्यग्वेदनात् ममैवंविधत्वेन विदितास्ततोऽहं तदुक्त्याकर्णनादितः संयच्छामि किंप्रभाषकाश्चैत इति सूत्रार्थः । कथं पुनस्त्वमात्मानमन्यजन्मनि जानासीत्याहमू. (५८७) अहमासी महापाने, जुइमं वरिससओवमे।। ___ जा सा पाली महापाली, दिव्वा वरिससओवमा॥ 29/2] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 316