Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 18
________________ अध्ययनं-१८,[नि. ४०४] आचार्यदीन्, कथं विनीय'त्ति 'विनीतः' विनयवानित्युच्यत इति सूत्रद्वयार्थः । सञ्जयमुनिराहमू.(५८१) संजओ नाम नामेणं, तहा गुत्तेण गोयमो। गद्दभाली ममायरिया, विज्जाचरणपारगा।। वृ. यदुक्तं त्वया-किनामा त्वमिति, तत्र सञ्जयो नाम नाम्ना । यच्चावोच:-किंगोत्रः? इति, तत्राह-तथा गोत्रेण' अन्वेयन गोतमः, उभयत्राहमिति गम्यते, शेषप्रश्नत्रयप्रतिवचनमाह'गर्दभालयः' गर्दभाल्यभिधाना मम आचार्याः' धर्मोपदेशकत्वादिना, विद्यतेऽनया तत्त्वमिति विद्या-श्रुतज्ञानं तथा चर्यत इति चरणं-चारित्रं विद्या च चरणं च विद्याचरणे तयोः पारगाःपर्यन्तगामिनो विद्याचरणपारगाः, एवं चवदतोऽयमाशयः-यथा गर्दभालिभिर्धर्माचार्यैजविद्यातानिवर्तितोऽहं, विद्याचरणपारगत्वाच्च तैस्तनिवृत्तौ मुक्तिलक्षणं फलमुक्तं, ततस्तदर्थं माहनोऽस्मि, यथा च तदुपदेशस्तथा गुरून प्रतिचरामि, तदुपदेशासेवनाच्च विनीत इति सूत्रार्थः ।। इत्थं विमृश्य तद्गुणबहुमानाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाहमू. (५८२) किरियं अकिरियं विनयं, अन्नाणं च महामुनी!। एएहिं चउहिं ठाणेहि, मेअन्ने किं पभासई?॥ वृ.'क्रिया' अस्तीत्येवंरूपा, लिङ्गव्यत्ययानपुंसकनिर्देशः, अक्रिया' तद्विपरीता 'विनयः' नमस्कारकरणादिः, लिङ्गव्यत्ययः प्राग्वत्, तथा ज्ञानं-वस्तुतत्त्वावगमस्तदभावोऽज्ञानं, 'च:' समुच्चये, 'महामुने !' सम्यक्प्रव्रज्याप्रतिपत्तिगुरुपरिचर्यादिकरणतः प्रशस्ययते ! ‘एतैः' क्रियादिभिश्चतुर्भिः तिष्ठन्त्येषु कर्मवशगा जन्तव इति स्थानानि-मिथ्याऽध्यवसायाधारभूतानि तैः, 'मेयन्ने'त्ति, मीयत इति मेयं-ज्ञेयं जीवादिवस्तु तज्जानन्तीति मेयज्ञाः क्रियादिभिश्चतुर्भिः स्थानैः स्वस्वाभिप्रायकल्पितैर्वस्तुतत्त्वपरिच्छेदिन इतियावत्, 'किम्' इति कुत्सितं 'पभासइ'त्ति प्रकर्षेण भाषन्ते प्रभाषन्ते, विचाराक्षमत्वात्, तथाहि-ये तावक्रियावादिनस्तेऽस्तिक्रियाविशिष्टमात्मानं मन्यमाना अपितस्य सदा विभुत्वाविभुत्वकर्तृत्वाकर्तृत्वादिभिर्विप्रतिपद्यन्ते, उक्तं हि वाचकैः-क्रियावादिनो नाम येषामात्मनोऽस्तित्वं प्रत्यविप्रतिपत्तिः, किन्तु स विभुरभविभुः कर्ताऽकर्ता क्रियावानितरो मूर्तिमानमूर्तिरित्येवमाद्याग्रहोपहृतप्रीतयस्तेऽस्ति माता पिताऽस्ति न कुशलाकुशलकर्मवैफल्यं न न सन्ति गतय इत्येवंप्रतिज्ञाश्च, इह च विभुत्वं व्यापित्वं, तच्चात्मनो न घटते, शरीर एव तल्लिङ्गभूत चैतन्योपलब्धेः, न च वक्तव्यमात्मनोऽव्यापित्वे 'सुखदुःखबुद्धीच्छाद्वेषप्रयत्न धर्माधर्मसंस्कारा नवात्मगुणा' इतिवचनात्तद्गुणयोधर्माधर्मयोरप्यव्यापित्वं, तथा च द्वीपान्तरगतदेवदत्तादृष्टाकृष्टमणिमुक्तादीनां नेहागमनं स्यादिति, विभिन्नादेशस्याप्ययस्कान्तादेरयः प्रभृतिवस्त्वाकर्षणशक्तिदर्शनाद्धर्माधर्मयोरपि शरीरमात्रव्यापित्वेऽपि तद्वद्विप्रकृष्टवस्त्वाकर्षकत्वादिति न तावद्विभुरात्मा युज्यते। ___ तथाऽविभुरप्यंगुष्ठपर्यायधिष्ठानो यैरिष्यते तेषां सकलशरीरव्यापिचैतन्यासत्त्वं, तदसत्वाच्च शेषशरीरावयवेषु शस्त्रादिभेदादौ वेदनानुभवासंभवो, न चैतद् दृष्टमिष्टं वा, एवं सर्वदा कर्तृत्वादिकमपि यथा न युज्यते तथा स्वधिया वाच्यं १ । ये त्वक्रियावादिनस्तेऽस्तीतिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, अस्तित्वे वा शरीरेण सहैकत्वान्यत्वाभ्यामवक्तव्यमिच्छन्ति, एकत्वे ह्यविनष्टशरीरावस्थितौ न कदाचिन्मरणप्रशस्तिः, आत्मनः शरीरानन्यत्वेनावस्थितत्वात्, तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 316