________________
अध्ययनं-१८,[नि. ४०४] आचार्यदीन्, कथं विनीय'त्ति 'विनीतः' विनयवानित्युच्यत इति सूत्रद्वयार्थः । सञ्जयमुनिराहमू.(५८१) संजओ नाम नामेणं, तहा गुत्तेण गोयमो।
गद्दभाली ममायरिया, विज्जाचरणपारगा।। वृ. यदुक्तं त्वया-किनामा त्वमिति, तत्र सञ्जयो नाम नाम्ना । यच्चावोच:-किंगोत्रः? इति, तत्राह-तथा गोत्रेण' अन्वेयन गोतमः, उभयत्राहमिति गम्यते, शेषप्रश्नत्रयप्रतिवचनमाह'गर्दभालयः' गर्दभाल्यभिधाना मम आचार्याः' धर्मोपदेशकत्वादिना, विद्यतेऽनया तत्त्वमिति विद्या-श्रुतज्ञानं तथा चर्यत इति चरणं-चारित्रं विद्या च चरणं च विद्याचरणे तयोः पारगाःपर्यन्तगामिनो विद्याचरणपारगाः, एवं चवदतोऽयमाशयः-यथा गर्दभालिभिर्धर्माचार्यैजविद्यातानिवर्तितोऽहं, विद्याचरणपारगत्वाच्च तैस्तनिवृत्तौ मुक्तिलक्षणं फलमुक्तं, ततस्तदर्थं माहनोऽस्मि, यथा च तदुपदेशस्तथा गुरून प्रतिचरामि, तदुपदेशासेवनाच्च विनीत इति सूत्रार्थः ।। इत्थं विमृश्य तद्गुणबहुमानाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाहमू. (५८२) किरियं अकिरियं विनयं, अन्नाणं च महामुनी!।
एएहिं चउहिं ठाणेहि, मेअन्ने किं पभासई?॥ वृ.'क्रिया' अस्तीत्येवंरूपा, लिङ्गव्यत्ययानपुंसकनिर्देशः, अक्रिया' तद्विपरीता 'विनयः' नमस्कारकरणादिः, लिङ्गव्यत्ययः प्राग्वत्, तथा ज्ञानं-वस्तुतत्त्वावगमस्तदभावोऽज्ञानं, 'च:' समुच्चये, 'महामुने !' सम्यक्प्रव्रज्याप्रतिपत्तिगुरुपरिचर्यादिकरणतः प्रशस्ययते ! ‘एतैः' क्रियादिभिश्चतुर्भिः तिष्ठन्त्येषु कर्मवशगा जन्तव इति स्थानानि-मिथ्याऽध्यवसायाधारभूतानि तैः, 'मेयन्ने'त्ति, मीयत इति मेयं-ज्ञेयं जीवादिवस्तु तज्जानन्तीति मेयज्ञाः क्रियादिभिश्चतुर्भिः स्थानैः स्वस्वाभिप्रायकल्पितैर्वस्तुतत्त्वपरिच्छेदिन इतियावत्, 'किम्' इति कुत्सितं 'पभासइ'त्ति प्रकर्षेण भाषन्ते प्रभाषन्ते, विचाराक्षमत्वात्, तथाहि-ये तावक्रियावादिनस्तेऽस्तिक्रियाविशिष्टमात्मानं मन्यमाना अपितस्य सदा विभुत्वाविभुत्वकर्तृत्वाकर्तृत्वादिभिर्विप्रतिपद्यन्ते, उक्तं हि वाचकैः-क्रियावादिनो नाम येषामात्मनोऽस्तित्वं प्रत्यविप्रतिपत्तिः, किन्तु स विभुरभविभुः कर्ताऽकर्ता क्रियावानितरो मूर्तिमानमूर्तिरित्येवमाद्याग्रहोपहृतप्रीतयस्तेऽस्ति माता पिताऽस्ति न कुशलाकुशलकर्मवैफल्यं न न सन्ति गतय इत्येवंप्रतिज्ञाश्च, इह च विभुत्वं व्यापित्वं, तच्चात्मनो न घटते, शरीर एव तल्लिङ्गभूत चैतन्योपलब्धेः, न च वक्तव्यमात्मनोऽव्यापित्वे 'सुखदुःखबुद्धीच्छाद्वेषप्रयत्न धर्माधर्मसंस्कारा नवात्मगुणा' इतिवचनात्तद्गुणयोधर्माधर्मयोरप्यव्यापित्वं, तथा च द्वीपान्तरगतदेवदत्तादृष्टाकृष्टमणिमुक्तादीनां नेहागमनं स्यादिति, विभिन्नादेशस्याप्ययस्कान्तादेरयः प्रभृतिवस्त्वाकर्षणशक्तिदर्शनाद्धर्माधर्मयोरपि शरीरमात्रव्यापित्वेऽपि तद्वद्विप्रकृष्टवस्त्वाकर्षकत्वादिति न तावद्विभुरात्मा युज्यते। ___ तथाऽविभुरप्यंगुष्ठपर्यायधिष्ठानो यैरिष्यते तेषां सकलशरीरव्यापिचैतन्यासत्त्वं, तदसत्वाच्च शेषशरीरावयवेषु शस्त्रादिभेदादौ वेदनानुभवासंभवो, न चैतद् दृष्टमिष्टं वा, एवं सर्वदा कर्तृत्वादिकमपि यथा न युज्यते तथा स्वधिया वाच्यं १ । ये त्वक्रियावादिनस्तेऽस्तीतिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, अस्तित्वे वा शरीरेण सहैकत्वान्यत्वाभ्यामवक्तव्यमिच्छन्ति, एकत्वे ह्यविनष्टशरीरावस्थितौ न कदाचिन्मरणप्रशस्तिः, आत्मनः शरीरानन्यत्वेनावस्थितत्वात्, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org