________________
उत्तराध्ययन- मूलसूत्रम् -२-१८/५७८ वृ.‘श्रुत्वा' आकर्ण्य ‘तस्य' इत्यनगरास्य 'स' इति सञ्जयाभिधानो राजा 'धर्मम्' उक्तरूपम् ‘अनगारस्य' भिक्षोः ‘आन्तिके' समीपे 'महय'त्ति महता आदरेणेति शेषः, सुब्व्यत्ययेन वा महत्, 'संवेगनिर्वेदं' तत्र संवेगो - मोक्षाभिलाषो निर्वेदः - संसारोद्विग्नता 'समापन्न: ' प्राप्तः 'नराधिप:' राजा 'सञ्जयः' सञ्जयनामा 'चइउं' त्यक्त्वा 'राज्यं' राष्ट्राधिपत्यरूपं 'निष्क्रान्तः' प्रव्रजितः 'जिनशासने' अर्हर्द्दशने, न तु सगुतादिदेशितेऽ सद्दर्शने एवेति भावः, 'गर्दभाले:' गर्दभालिनाम्नो भगवतोऽनगारस्यान्तिक इति सूत्रद्वयार्थः ॥ सूत्रनवकोक्तमेवार्थं स्पष्टयितुमाह नि. [ ४०२ ] अभयं तुज्झ नरवई ! जलबुब्बु असंनिभे अ मानुस्से । किं हिंसाइ पसज्जसि जाणंतो अप्पणो दुक्खं ? ।। सव्वमिणं चइऊणं अवस्स जया य होइ गंतव्वं । किं भोगे पसज्जसि ?, किंपागफलोवमनिभेसुं ॥ सोऊणय सो धम्मं तस्सऽनगारस्स अंतिए राया। अनगारो पव्वइओ रज्जं चइउं गुणसमग्गं ॥
नि. [ ४०३]
नि. [ ४०४ ]
त्व -
वृ. व्याख्यातप्रायमेव, नवरं 'अप्पणो दुक्खं 'ति आत्मनो दुःखमिति - दुःखजनकं मरणमिति शेषः, ‘किंपागफलोपमणिभेसु'न्ति किम्पाकफलोपमा निभा-छाया येषां ते तथा आपातमधुर- परिणतिदारुणत्वाभ्यां तथा 'अनगारः ' अविद्यमानगृहो, जात इति शेषः, स च शाक्यादिरपि संभवेदत आह-'पववइओ' त्ति प्रकर्षेण-विषयाभिष्वङ्गादिपरिहाररूपेण व्रजितो- निष्क्रान्तः प्रव्रजितो, भावभिक्षुरितियावत्, तथा गुणाः - कामगुणा मनोज्ञशब्दादय आज्ञैश्वर्यादयो वा तैः समग्रं - सम्पूर्णं गुणसमग्रमिति गाथात्रयार्थः ॥
१४
सचैवं गृहीतप्रव्रज्योऽधिगतहेयोपादेयविभागो दशविधचक्रवालसाचाचारीरतश्चानियतविहारितया विहरन् तथाविधसन्निवेशमाजगाम, तत्र च तस्य यदभूत्तदाहचिच्चा रटुं पव्वईओ, खत्तिओ परिभासई ।
मू. ( ५७९ )
जहा ते दीसई रूवं, पसन्नं ते तहा मनो ।
वृ. त्यक्त्वा 'राष्ट्र' ग्रामनगरादिसमुदायं 'प्रव्रजितः ' प्रतिपन्नदीक्षः 'क्षत्रियः' क्षत्रजातिरनिर्दिष्टनामा परिभाषते, सञ्जयमुनिमित्युपस्कारः, स हि पूर्वजन्मनि वैमानिक आसीत्, ततश्च्युतः क्षत्रियकुलेऽजनि तत्र च कुतश्चित्तथाविध निमित्ततः स्मृतपूर्वजन्मा तत एव चोत्पन्नवैराग्यः प्रव्रज्यां गृहीतवान्, गृहीतप्रव्रज्यश्च विहरन् सञ्जयमुनिं दृष्ट्वा तद्विमर्शार्थमिदमुक्तवान् यथा ते 'दृश्यते' अवलोक्यते 'रूपम्' आकृतिः 'प्रसन्नं' विकाररहितं 'ते' तव 'तथा' तेनैव प्रकारेण प्रसन्नमिति प्रक्रमः, किं तत् ? - 'मनः ' चित्तं, न ह्यन्तः कलुषतायां बहिरप्येवं प्रसन्नतासम्भवः, मू. (५८० ) किंनामे किंगुत्ते कस्सद्वाए व माहणे ?,
कहं पडियरसी बुद्धे ?, कहं विनीयत्ति वुच्चसि ? ॥
वृ. तथा ' किंनामा' किमभिधानः 'किंगोत्र: ' किमन्वयः 'कस्सट्ठाए व 'त्ति कस्मै वा 'अर्थाय ' प्रयोजनाय 'माहणे 'त्ति मा वधीत्येवंरूपं मनो वाक् क्रिया च यस्यासौ माहन:, सर्वे धातवः पचादिषु दृश्यन्त इति वचनात्पचादित्वादच्, स चैवंविधः प्रव्रजित एव संभवत्यतः किं वा प्रयोजनमुद्दिश्य प्रव्रजितः, 'कथं' केन प्रकारेण 'प्रतिचरसि' सेवसे, कान् ? - 'बुद्धान्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org