________________
१३
अध्ययनं-१८,[ नि. ४०१] मू. (५७३) दाराणि य सुया चेव, मित्ता य तह बंधवा। ।
जीवंतमनुजीवंति, मयं नानव्वयंति य॥ वृ. तथा 'दाराश्च' कलत्राणि प्राकृतत्वान्नया निर्देशः, सुताश्चैव 'मित्राणि च' प्रतीतान्येव, तथा 'बान्धवाः' स्वजनाः जीवन्तम् 'अनुजीवन्ति' तदुपाजितवित्तायुमभोगत उपजीवन्ति, मृतं 'नानुव्वयंति य'त्ति चशब्दस्यापिशब्दार्थत्वादनुव्रजन्त्यति न, किं पुनः सह यास्यन्तीति, तदनेन दारादीनामपि कृतघ्नतया न तेष्वास्थां विधाय धर्मे उदासितव्यमित्युक्तमिति, इदं च सूत्रं चिरन्तनवृत्तिकृता न व्याख्यातं, प्रत्यन्तरेषु च ददृयत इत्यस्माभिरुनीतम्॥ पुनस्तत्प्रतिबन्धनिराकरणायाहमू. (५७४) नीहरंति मयं पुत्ता. पियरं परमदुक्खिया।
पियरो अतहा पुत्ते, बंधू रायं! तवं चरे।। वृ.'नीहरंति'त्ति निस्सारयन्ति 'मृतम्' इति गयायुषं 'पुत्राः' सुताः 'पितरं' जनकं 'परमदुःखिताः' अतिशयसञ्जातदुःखा अपि, किं पुनर्ये न तथा दु:खभाज इति भावः, पितरोऽपि तथा पुत्रान्, 'बंधु'त्ति बन्धवश्च बन्धूनिति शेषः, अतश्च किं कृत्यमित्याह-राजन्! तप उपलक्षणत्वाद्दानादि 'चरेः' आसेवस्वेति ।। अपरञ्चमू.(५७५) तओ तेनज्जिए दव्वे, दारे य परिरक्खिए।
कीलंतऽन्त्रे नरा रायं!, हट्टतुट्ठमलंकिया। वृ. 'ततो'त्ति मृतानिःसारणादनन्तरं 'तेन' इति मित्रपित्रादिना 'अजिते' विढपिते 'द्रव्ये' वित्ते 'दारेषु च' कलत्रषु च 'परिरक्षितेषु' सर्वापायपरिपालितेषु, उभयत्रार्षत्वादेकवचनं, 'क्रीडन्ति' विलसन्ति तेनैव वित्तेन दारैश्चेति गम्यते 'अन्ये' अपरे राजन्! 'हट्टतुट्ठमलंकिय'त्ति हृष्टा:-बहिः पुलकादिमन्तः तुष्टः-आन्तरप्रीतिभाजः 'अलंकृताः' विभूषिताः, यत ईदृशी भवस्थितिस्ततो राजन् ! तपश्चरेरिति मध्यदीपकत्वादनन्तरसूत्रोक्तेन सम्बन्धः ।। मृतस्य च वृत्तान्त इत्याहमू. (५७६) तेनावि जं. कयं कम्म, सुहं वा जइ वा दुहं।
कम्मुणा तेन संजुत्तो, गच्छई उ परं भवं॥ वृ. 'तेनापि' मृतेन यत् 'कृतम्' अनुष्ठितं कर्म 'शुभं वा' पुण्डप्रकृतिरूपं, यद्वा सुखं वा' सुखहेतुः 'यदिवे'त्यथवा 'दुःखं' दु:खहेतुः पापप्रकृत्यात्मकमित्यर्थः । कर्मणा तेन सुखहेतुना दुःखहेतुना वा, उत्तरत्र तुशब्दस्यैवकार्थत्वा भिन्नक्रमत्वाच्च तेनैव, न तु दुःखपरिरक्षितेनापि द्रव्यादिना 'संयुक्तः' सहितः ‘गच्छति' याति परम्' अन्यं भवं' जन्म, यतश्च शुभाशुभयोरेवानुयायिता ततः शुभहेतुं तप एव चरेरिति भाव इति सूत्रसप्तकार्थः ।।
ततस्तद्वचः श्रुत्वा राजा किमचेष्टतेत्याहमू.(५७७) सोऊण तस्स सो धम्म, अनगारस्स अंतिए।
महया संवेगनिव्वेयं, समावन्नो नराहिवो। मू.(५७८) संजमो चइउंरज्जं, निक्खंतो जिनसासने।
गद्दभालिस्स भगवओ, अनगारस्स अंतिए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org