Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ उद्देशकः-४, मूल - १०२, [भा. १७३८] ____ उउबद्धम्मि विहारो, एरिसयाणंअनुन्नातो ।। वृ- एतैरनन्तरगाथोक्तैर्गुणैः सम्प्रयुक्ता एतद्गुणसम्प्रयुक्ताः कारणजातेनानन्तरोदितेन केनचित्कारणविशेषेण तावाचार्यादिकावुपाध्यायादिको वा ऋतुबद्धे काले विहरतो न कश्चिद्दोषोऽधिकृतसूत्रेणानुज्ञानात् तथा चाह ईदृशयोर्ऋतुबद्ध काले अधिकृतसूत्रेण विहारोऽनुज्ञातो दोषाभावात् कारणविशेषस्य च गरीयस्त्वात् । ।जातेति चत्वारः कल्पाः सूचिताः, तानेवाह[भा.१७३९] जातोयअजातो वा दुविहो कप्पोउहोंति नायव्यो । एक्केको विय दुविहो, सम्मत्तकप्पो यअसमत्तो।। वृ-द्विविधः खलुकल्पोभवतिज्ञातव्यस्तद्यथाजातोऽजातश्च । एकैकोऽपिच द्विधा-समाप्तकल्पः असमाप्तकल्पश्च । एतानेव चतुरो व्याख्यानयति[भा.१७४०] गीयत्थो जायकप्पोऽगीतो खलुभवे अजातोतु । पनगंसमत्तकप्पो, तदूनगो होति असमत्तो ।। वृ- जातकल्पो नाम यो गीतार्थः सूत्रार्थतदुभयकुशलो, ऽगीतोऽगीतार्थः खलु भवेदजातोऽजातकल्पः,समापतकल्पोनामपरिपूर्णसहायः,सचजधन्येन पञ्चकंपञ्चकपरिमाणऋतुबद्ध काले, वर्षाकाले सप्तपरिमाणः, तदुनकस्तस्मात् पञ्चकात्सप्तकाद्वा हीनतरः कल्पो भवत्यसमाप्तो अपरिपूर्णसहायत्वात् ।। अत्रभंगचतुष्टयं, तदेवाह[भा.१७४१] अहवाजातोसमत्तो, जातोचेव य तहेव असमत्तो । असमत्तोजातोय, असमत्तोचेव उअजातो ।। वृ- अथवेति प्रकारान्ते पूर्व कल्पचतुष्टयं सामान्यतः प्ररुपितमिदानीं संयोगतः प्ररुप्यते, जातकल्पोऽपि समाप्तकल्पोऽपीत्येको भङ्गः, जातकल्पोऽसमाप्तकल्प इति द्वितीयः, अजातकल्पः समाप्तकल्पइतितृतीयः, अजातकल्पोऽसमाप्तकल्पइतिचतुर्थः । अत्रप्रथमभङ्गःशुद्धःशेषेषुत्रिषु भङ्गेषु यतनाकर्तव्या ।।तेसिंजयणेतिसूचागाथोक्तं पदंव्याख्यानयन्प्राह[भा.१७४२] तेसिंजयणा इणमो, भिक्खगह निक्खमप्पवेसेय । अनुन्नवणंपिय, समगंबेतिय गिहि दिज्जओहाणं ।। वृ- तेषामाद्यवर्जानं त्रयाणां भङ्गानामियं यतना, समकमेककालं भिक्षाग्रहाय, उपलक्षणमेतत् विचारायच, निष्क्रमः समकमेव चावग्रहस्यानुज्ञापनम् । इयमत्रभावना-भिक्षाग्रहणाय विचाराय वा सर्वमुपकरणमादाय समकमेव निष्क्रामतः समकमेव च प्रविशतः । तथा वसतिं प्रथमं याचमानौ समकमेवशय्यातरमनुज्ञापयतः तथा निर्गच्छन्तौ समकमेव शय्यातरसमीपमुपगम्य ब्रुवाते, यथा गृहे गृहस्य प्रतिश्रयस्य उपधानंस्थगनं दद्यादिति।। उउबद्धति पदव्याख्यानार्थमाह[भा.१७४३] उउबद्धे अविरहियं, एतंजंतेहिं होइसाहहिं । कारेइ कुणइव सयं,गणीविओलोयणमभिक्खं । वृ- ऋतुबद्ध काले तयोः कारणवशतस्तथास्थितयोस्तत्स्थनमागच्छभिश्च भिक्षार्थ ग्राम प्रविशद्भिर्विचारार्थाय यथा वा निर्गत्य मिलनार्थमायद्भिर्गच्छद्भिश्च पुनः स्वस्थानं प्रतिचलद्भिः साधुभिरविरहितं भवति ।। आलोयगत्ति पदं व्याख्यानयति-यो-ऽसौ गणी आचार्यः सोऽपि तयोर्द्वयोर्जनयोः अवलोकनांगवेषणामभीक्ष्णं द्वितीयेतृतीयेवा दिने स्वयं करोति, अन्यैर्वा कारयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 564