Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक :-४, मूल - १०२, [भा. १७८५]
१७ मध्ये प्रविष्टो,गुप्तःसन्, सबालकोदह्येत कैतवेनवा केचित्ब्युर्मन्दभाग्य! नश्यप्रदीपनकंलग्नं वर्तते। एवमुक्तेस उपकरणंबहिर्निष्काशयितुमारभतेततोऽपहरन्ति ।। __भङ्गे मालवतेनत्तिमालवा म्लेच्छविशेषाः शरीरापहारिणः,स्तेना उपकरणापहारिणस्तैभङ्गेसबालको भयतोजनेनसार्धनश्यति, नचसारमुपधिंगृह्णाति । यदिवाउपधिप्रतिबद्धःसन्स वसतावेव तिष्ठेत्, ततःसमालवैरपहियतेस्तेनैर्वा उपकरणमिति । अथवा केचित् कैतवेनब्रूयुर्मालवाः स्तेनावाक्षुल्लक! समापतितास्तस्मात् पलायस्व जनेन सार्धमिति, एवमुक्ते स बालकस्तत्त्वमजानानो नश्यति, इतरे उपकरणमपहरन्ति ।। नातित्ति ज्ञातयः स्वजनास्ते समागतास्तैरेकाकी दृष्टस्ततो नीयते, अन्ये वोपधिमपहरन्ति । अथवाऽन्येन केनचित् आगच्छन्ति दृष्टाः तेन कथितं क्षुल्लक ! तव ज्ञातयः समागच्छन्ति । ततःसपलायतेइतरश्चोपकरणमपहरति ।अथवाकोऽपिधूर्तःकैतवेन ब्रूयात्, क्षुल्लक ! क ते निजकाः, क्षुल्लकः प्राह-अमुके ग्रामे नगरे वा, सोऽन्यस्मै कथयति, ततस्तेषां सजातीनां नामचिन्हान्यवगम्य तस्य क्षुल्लकस्य समीपमागत्य भणति-अमुकस्य त्वं निजकः ।क्षुल्लकः प्राह-कथं त्वं जानासि । ततः स तन्मातापित्रादीनां नामवर्णादि कथयति । ततः क्षुल्लकस्य प्रत्यय उपजायते, ततो वक्ति सत्यमहंतेषां निजकः । ततोधूर्तो ब्रूते-आगतास्तव निमित्तं, मया अमुकप्रदेशे दृष्टा इति, ततः स पलायते, इतरे प्रत्युपकरणम् । एवं यथा बालेऽकल्पिके दोषास्तथा अव्यक्ते निद्राप्रमत्ते कथाप्रमत्तेवाकल्पिके वेदितव्याः । [भा.१७८६] तम्हा पालेइगुरुपुव्वं काउंसरीरचिंतंतु ।
इहरा आउवहीणं विराहधनाधरंतरमधरते ।। वृ-यतस्तरुणे बालकादौ वाऽकल्पिके वसतिपाले स्थितेऽनन्तरोक्त दोषा आचार्येतुन भवन्ति, तस्माद्गुरुराचार्योवसतिंपालयति,कथमितिचेदतआह-पूर्वशरीरचिन्तांकृत्वासंज्ञाभूमिंगत्वा इत्यर्थः, अयशरीचिन्तांनकरोतिततःप्रायश्चित्तंमासलघु, इमेचदोषाः । 'इहराउ' इत्यादि,इतरथाशरीरचिन्ताया अकरणेयदिसंज्ञांधारयतिततआत्मविराधना मरणस्यग्लानत्वस्य चावश्यं तन्निरोधेभावात् । अथन धारयति किन्तु मात्रके व्युत्सृजति ततः श्राद्धादीनामागतानां गन्धागमन उड्डाहः । अथ बहिर्याति च तत्रोपधेर्विराधनातस्करापहाररूपयेचैकाकिनोदोषास्तेचभवन्ति ।।एषसंस्तरणंविधिरुक्तोऽसंस्तरणे पुनराचार्यो वसतिंप्रलोकमानस्तस्मिन्नेव पाटके प्रत्यासन्नेषुगृहेषु भिक्षार्थ हिण्डते । तथा चाह[भा.१७८७] जइसंघाडोतिण्ह विपजत्तानेइतोगुरुन नीति ।
अहनविआणेताहेवसहिआलोगहिंडणया ।।. वृ- यदि सङ्घाटकः साधुयुग्मं त्रयाणामपिआत्मद्विकस्य गुरोश्चेत्यर्थः पर्याप्त परिपूर्णमानयति ततो गुरुर्भिक्षार्थनन्येति निर्गच्छति । अथ नैव त्रयाणां पर्याप्तमानयत्यलाभादशक्तेर्वा, तदा वसतेरालोको यथा भवत्येवमाचार्यस्य प्रत्सन्नेषु गृहेषु हिण्डनम् ।। कियत्पुनस्तत्रगृह्णातीतिचेदत आह[भा.१७८८] आसन्नेसुंगेण्हइजत्तियमेत्तेण होइपज्जत्तं ।
___ जावइए यऊणंइयराणीयंतुतंगेण्हे ।। वृ-तस्मिन्नेव पाटके प्रत्यासन्नेषु गृहेषु गृह्णातितावन्मात्रंयावन्मात्रेण पर्याप्तं परिपूर्णभवति । अथ तावन्नलभ्यतेतर्हि यावता ऊनंतत्तावत् इतराभ्यामानीतं गृह्णाति । नचत्रयोऽपिपरिपूर्णभुञ्जतेकिं [22[2]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 564