Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 17
________________ १४ व्यवहार- छेदसूत्रम् - २-४ / १०२ वृ- संयतस्तपः कर्म प्रति अग्लान्या पराक्रमेदित्युक्त भगवता तस्मान्न नियमतः सर्वस्य रसत्यागो भवति । जस्स उसरीरजवणा, रुते पणीयं न होइ साहुस्स । सोवियहु भिन्नपिंडं भुंजउ अहवा जह समाही ।। वृ- यस्य साधोः शरीरयापना न प्रणीतं प्रणीतरसमृते भवति, सोऽपि च आसतां पूर्वोक्ता असहा इत्यपिशब्दार्थः । हुनिश्चितं भिन्नपिण्डं धृतादिना मिश्रितं गलितापिण्डं भुञ्जीत । अथवा यथासमाधि क्षीरादि भुङ्क्ते केवलं मा गृद्धिर्भूयादिति संपृष्ट (संमृष्ट) पानकादिना मीलयित्वा क्षीरमापिबेत् । । [ भा. १७७६ ] चउभंगो अजनाउलकुलाउले चेव ततियभंगो उ । [भा. १७७५ ] भोइयमादि जनाउल कुलाउल मडंबमादीसु ।। वृ- जनाकुल- कुलाकुलयोश्चतुर्भङ्गिका जनाकुलमपि कुलाकुलमपीति थमो भङ्गः, जनाकुलं न कुलाकुलमिति द्वितीयः, न जनाकुलं कुलाकुलमिति तृतीयः, न जनाकुलं नापि कुलाकुलमिति चतुर्थः, प्रथमभङ्गे बहूनि कुलानि बहूनि मानुषाणि । द्वितीयभङ्गे कुलानि स्तोकानि जनास्त्वतिबहवः, कुले कुले भोजिकादिजनानां सहस्त्रसंख्याया भावात् । तृतीयभङ्गे बहूनि कुलानि जनाः स्तोकाः, गृहे गृहे एकस्य द्वयोर्वा मानुषयोर्भावात् । चतुर्थभङ्गे न बहूनि कुलानि नापि बहवो जनाः; कतिपयकुलानां प्रतिकुलंच स्तोकमानुषाणां भावात् ।। अत्र यौ भङ्गौ ग्राह्यौ तावाह-अजनाकुलेत्यादिना न जनाकुलं कुलाकुलमिति तृतीयो ग्राह्यः एतदनुज्ञानात् प्रथमः सुतरामनुज्ञातो द्रष्टव्यस्तस्योभयगुणोपेतत्वात् । आहच चर्णिकृत्“जइ ताव तइओ भंगो । अनुन्नाओ प्रगेव पढमो भंगो अनुन्नातो' इति, शेषौ तु द्वौ भंगी नानुज्ञाती कुलानामल्पत्वात् ।। सम्प्रति जनाकुलतां कुलाकुलतां च व्याख्यानयति भोइय इत्यादि प्रथमभङ्गे द्वितीयभङ्गे च जनाकुलं भोजिकादिभिरतिप्रभूतैर्जनैराकीर्णत्वात् कुलाकुलं मडम्बादिषु स्थानेषु । तथा हि-मडम्बे अष्टादशकुलसहस्त्राणि, आदिशब्दात्पत्तनादिपरिग्रहः । व्याख्यातं जनकुलद्वारम् । । वेस्स ओहस्सव, असतीए गिलाणउ जं पावे । वेजसगास नेते आनंते चेव जे दोसा ।। [भा. १७७७ ] वृ- यदि नाम कोऽपिग्लानो जायते, तदावैद्यस्य औषधस्य चासत्यभावे यत् ग्लानो अनागाढागाढपरितापनादि प्राप्नोति तन्निमित्तं सर्व प्रायश्चित्तमाचार्यः प्राप्नोति । अन्यच्च तादृशे क्षेत्रेऽवतिष्ठमानो वैद्योऽत्र नास्तीति ग्लानेऽन्यस्मिन् ग्रामे वैद्यस्य सकाशं नीयमाने आनीयमाने वा ये दोषां अनागाढमनागाढं वा परितापनं स्तेनैरुपकरणाद्यपहरणं व्याघ्रादिश्वापदैर्भणमित्यादि तद्धेतुकमपि प्राप्नोति । एवमौषधस्याप्यानयसाधुवु ग्रामान्तरे प्रेष्वमाणेषु दोषा वाच्वाः । । [भा. १७७८ ] नेचइया पुन धन्नं दलंति असारअंचितादीसु । अहिवंमि होइ रक्खा, निरंकुसेसुं बहू दोसा ।। वृ- निचयेन संचयेनार्थाद् धान्यानां ये व्यवहरन्ति ते नैचयिकास्ते असारा दरिद्रा अञ्चिताः पूज्या राजमान्याः पितृपितृव्यादयोवा आदिशब्दादनञ्चितादिपरिग्रहस्तषु क्रयेणान्यथा वा धान्यं ददति । ततः सर्वत्र भिक्षा सुलभोपजायते ।। तथा अधिपेऽधिपतौ विद्यमाने रक्षा भवति । निरङ्कुशेषु लोकेषु मध्ये पुनर्वसतो बहवो दोषा उपकरणापहारापमानादिलक्षणाः।। पाषण्डद्वारमाहपासंडभाविएस, लंभति ओमानमो अतिबहसु । [ भा. १७७९ ] For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 564