Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : - ४, मूल - १०२, [भा. १७६९ ]
चशब्दादात्मनि च, आत्मविराधना संयमविराधना चेत्यर्थः, तत्र वृश्चिकादिभिर्दशादात्मविराधना, कीटिकादिसत्त्वव्याघाताच्च संयमविराधना । । स्थण्डिलाभावे दोषानाह-नियमत्यादिस्यण्डिलाभावे अस्थण्डिले जुगुप्सिते वा स्थण्डिले निसर्गे पुरीषप्रश्रवणोत्सर्गे नियमाद् दोषाः संयमविराधनादयः । तत्रास्थण्डिले हरितकायादिव्यापादनात् संयमविराधना, पादादिल्हसनादात्मविराधना, जुगुप्सिते स्थण्डिले प्रवचनविराधना | अथैतद्दोषभयान्न व्युत्सृजति किन्तु धारयति । तत आह, धारेण च दोषा आत्मविधातादयः तथाच पुरीषादिधारणे जीवितनाशादिः” “मुतनिरोह चक्खुं वच्चनिरोहेय जीवियं चयति” इत्यादिवचनात् । ग्लानत्वे च चिकित्साकरणतः संयमव्याघातः । । यत्र सङ्कटा वसतिर्यत्र द्वित्र्यादयो वसतयो न लभ्यन्ते तत्र दोषानाह
,
[भा. १७७० ]
वसहीए संकडाए विरल्ल अविरल्लणे भवे दोसा ।
वाघातेन व अन्नाऽसतीए दोसा उवच्चंते ।।
?
वृ- वसतौ सङ्कटायां सत्यामुपधेः विरल्लेति विस्तारणे वा दोपा भवन्ति के ते इति चेदुच्यते;-यदि उपधिस्तीमितो विस्तार्यते ततः सङ्कटत्वादन्यमप्यतीमितमुपधिं तीमयति । अय न विस्तार्यते तर्हि स कोथमुपयाति, तत्संसर्गतः शरीरस्य च मान्द्यमुपजायते । एकस्यश्चवसतेः कथमपि व्याघाते अन्यस्याश्च अभावे ग्रामान्तरं व्रजनीयं तत्र च व्रजति संयमात्मग्रवचनविराधना । तथा हि-मार्गे जलहरितकायादिव्यापादनात् संयमविराधना अगाधे सलिले प्रविशत आत्मविराधना, वसत्यलाभतो वर्षाकालेऽपि वर्षप्रपातेनावरुध्यमानान् पथगिच्छतस्तान् दृष्ट्वा लोकः प्रवचनं कुत्सयते, ईदृशा एवैते वर्षास्वपि नाश्रमं क्वचिदपि लभन्ते इति प्रवचनविराधना।। गोरसाभावे दोषानाहअतरंतबालवुरुढा अभाविता चेव गोरसस्स असती ।
[भा. १७७१]
१३
जं पाविहित्ति दोसं आहारमएसु पाणेसु ।।
वृ- अतरन्तो नाम असहास्तथा बाला वृद्धाश्च तथा येऽभाविता येषां गोरसव्यतिरेकेण नान्यत्किमपि प्रतिभासते, ते गोरसस्य असति अबावे आहारमये, प्राणेषु सत्सु यद्गाढानागाढपरितापनादिकं दोषं प्राप्स्यन्ति, तन्निमित्तं सर्वमपि प्रायश्चित्तमाचार्यो लप्स्यते, तस्माद्यत्र तदभावस्तत्र न वस्तव्यम् । ननु भणितो रसच्चाओ, पणीयरसभोयणे य दोसा उ ।
[भा. १७७२]
किं गोरसेन भते, भन्नइ सुण चोयग इमं तु ।।
वृ- ननु सूत्रे रसानां क्षीरादीनां त्यागो भणितः, “अनशनमूनोदरता, वृत्तेः संक्षेपणं, रसत्यागः ” इत्यादिबाह्यतपोव्यावर्णनात् । प्रणीतरसभोजने च दोषाः कामोद्रेकादयः शरीरोपचयादिभावात्, ततः किं भदन्त गोरसेन कर्तव्यम् | सूरिराह श्रृणु चोदक! इदं वक्ष्यमाणम् ।। तदेवाह
-
[भा. १७७३] कामं तु रसच्चागो, चतुत्थमंगं तु बाहिरतवस्स । सो पुन सहूण जुञ्जति असहुण य सज्ज वावत्ति ।।
बृ- काममनुमतमेतत् । रसत्यागश्चतुर्थमङ्गं चतुर्थो भेदो बाह्यतपसः षड्भेदात्मकस्य । केवलं, पुनःशब्दः केवलार्थः, सरसत्यागः सहानां युज्यते संगच्छते । असहानामसमर्थानां रसाभावे सद्यस्तत्कालं व्यापत्तिर्मृत्युः ।। अन्यच्च[ भा. १७७४ ]
Jain Education International
अगिलाए तवोकम्मं परक्कमे संजतोति इतिवृत्तं । तम्हा उरसच्चाओ न नियमतो होति सव्वस्सा ।।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 564