Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : - ४, मूल - १०२, [ भा. १७५९ ]
99
वृ- महान् पुरुषः शून्यमुपाश्रयं दृष्ट्वा तत्र त्वग्वर्तनं करोति, यदि वा उपकरणं नयति दहति वा, तदा त्वग्वर्तने नयने दहने वा, प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः; अथानाचारं करोति, तत्रापि चत्वारो गुरुकाः ।। अधुना उपकरणेति व्याख्यानार्थनीतं वर्षेणार्द्रौक्रियते तदा चत्वारो लघुकाः । अथ तस्मिन्नुपाश्रये शून्ये सति ग्लानादिकान्, आदिशब्दात् प्राधूर्णकादिपरिग्रहः, गृहस्थाः स्थापयन्ति तदापि चत्वारो लघुकाः । अयोपधिं सह न नयति तदा सोऽरक्षितोः सन् उपहन्यते तस्करैर्वापहियते, तदपहारे चजधन्यमध्यमोत्कृष्टापहारनिमित्तं प्रायश्चित्तं, हृते च तस्मिन्नुपकरणे यद् अनेषणादिकंयत्रोपकरणविषये तौ सेवाते तन्निमित्तमपि प्रायश्चित्तं तौ प्राप्नुतः । । सम्प्रति 'गेलन्ने सल्लमरणे य' इति द्वारद्वयमाहगेलन्न मरणसल्ला बितिउद्देसंति वन्निया पुव्विं । ते चेव निरवसेसा नवरं इह इं तु बितियपयं ।।
[ भा. १७६०]
वृ- ग्लान्यं मरणसल्लत्ति सशल्यमरणमेते द्वे अपि पूर्व द्वितीयोद्देशके प्रथमसूत्रे ये दोषतया सविस्तरं वर्णितेते एव निरवशेपे अत्रापिवक्तव्ये, नवरं तत्र द्वितीयपदमपवादपदंनोक्तमिह तु, इकातरः पादपूरणे, तदुच्यते । । तदेवाह
[भा. १७६१]
असिवादिकारणेहिं अहवा फिडिया उ खेत्तसंकमणे ।
तत्तियमेत्ता व भवे दोण्हं वासासु जयण इमा ।।
वृ- अशिवांदिभिः कारणैर्द्धावपि वर्षासु विहरतः । अथवा एकस्मात् क्षेत्रादन्यस्मिन् क्षेत्रे सङ्क्रमणे कथमपि मार्गतः स्फिटितौ परिभ्रष्टावेकत्र वर्षासु विहरत उपलक्षणमेतत् तेनैतदपि द्रष्टव्यम्अशिवादिकारणतो गणस्फोटं कृत्वेकाकिनो जाताः सङ्केतवशाच्च कचिद्वर्षासु द्वौ मिलितविति । तत्तियमेत्ता व भवे इति अथवा शेषाः प्रतिभग्ना मृतावा अवशिष्टौ तावन्मात्रावेव द्वावेव भवतस्तिष्ठतः । एवं द्वौ वर्षासु भवतः । ततस्तयोश्च द्वयोर्वर्षासु इयं वक्ष्यमाणा यतना । । तामेवाहएगो रक्खति वसहिं भिक्खवियारादि बितियतो याति । संधरमाणे असंथरे निद्दोस्सुवरिं ठवित्तवहिं ।।
[भा. १७६२]
वृ- एको वसतिं रक्षति । द्वितीयो भिक्षाविचारादौ भिक्षायां विचारे बहिर्भूमावादिशब्दादन्यमिस्मन् वा प्रयोजने याति । एवं यतना तदा भवति तदा तौ संस्तरतः । असंथरेत्ति अथैकाकिनो भिक्षाया अलाभादन्यतो वा कुतश्चित्कारणान्न संस्तरतस्तदासंस्तरे द्वावपि सह हिण्डाते तत्रेयं यतना, यदि वसतौ निर्दोस्यं (ष्यं) निर्भयं तदा उपधिमुपरि वसतेः स्थापयतो बध्नीतो यथा न कोऽपि पश्यतीति । एवंभूतां च यतनां कुर्वन्तौ तावप्रायश्चित्तविषयौ । अथन कुरुतस्तदा यद् आपद्यते प्रायश्चित्तं तत्प्राप्नुतइति । । [भा. १७६३] सुत्तेणेवुद्धारो कारणियं तं तु होति सुत्तंति । कप्पोत्ति अनुन्नातो वासाणं केरिसे खेत्ते ।।
बृ-यत एवं दोषास्ततो द्वयोर्विहारो वर्षासु साक्षात्पंचमेन सूत्रेण प्रतिषिद्धस्त्रयाणां तु विहारस्योद्धारोऽनुज्ञातः सूत्रेणैव षष्ठेन कृतः सौऽप्युत्सर्गतो न कल्पते ततस्तत्सूत्रं कारणिकमशिवादिकारणनिष्पन्नं भवति वेदितव्यम् ।। अथ कीदृशे क्षेत्रे वर्षासु, गाथायां षष्ठी सप्तम्यर्थे प्राकृतत्वात्, त्रयाणां विहारः कल्प इति कल्पते इत्यनेन पादेनानुज्ञातः । सूरिराह
[ भा. १७६४ ]
महती विद्यारभूमी विहारभूमी य सुलभवित्तीय । सुलभा वसही य जहिं जहन्नयं वासखेत्तं तु ।।
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 564