SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ उद्देशक : - ४, मूल - १०२, [ भा. १७५९ ] 99 वृ- महान् पुरुषः शून्यमुपाश्रयं दृष्ट्वा तत्र त्वग्वर्तनं करोति, यदि वा उपकरणं नयति दहति वा, तदा त्वग्वर्तने नयने दहने वा, प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः; अथानाचारं करोति, तत्रापि चत्वारो गुरुकाः ।। अधुना उपकरणेति व्याख्यानार्थनीतं वर्षेणार्द्रौक्रियते तदा चत्वारो लघुकाः । अथ तस्मिन्नुपाश्रये शून्ये सति ग्लानादिकान्, आदिशब्दात् प्राधूर्णकादिपरिग्रहः, गृहस्थाः स्थापयन्ति तदापि चत्वारो लघुकाः । अयोपधिं सह न नयति तदा सोऽरक्षितोः सन् उपहन्यते तस्करैर्वापहियते, तदपहारे चजधन्यमध्यमोत्कृष्टापहारनिमित्तं प्रायश्चित्तं, हृते च तस्मिन्नुपकरणे यद् अनेषणादिकंयत्रोपकरणविषये तौ सेवाते तन्निमित्तमपि प्रायश्चित्तं तौ प्राप्नुतः । । सम्प्रति 'गेलन्ने सल्लमरणे य' इति द्वारद्वयमाहगेलन्न मरणसल्ला बितिउद्देसंति वन्निया पुव्विं । ते चेव निरवसेसा नवरं इह इं तु बितियपयं ।। [ भा. १७६०] वृ- ग्लान्यं मरणसल्लत्ति सशल्यमरणमेते द्वे अपि पूर्व द्वितीयोद्देशके प्रथमसूत्रे ये दोषतया सविस्तरं वर्णितेते एव निरवशेपे अत्रापिवक्तव्ये, नवरं तत्र द्वितीयपदमपवादपदंनोक्तमिह तु, इकातरः पादपूरणे, तदुच्यते । । तदेवाह [भा. १७६१] असिवादिकारणेहिं अहवा फिडिया उ खेत्तसंकमणे । तत्तियमेत्ता व भवे दोण्हं वासासु जयण इमा ।। वृ- अशिवांदिभिः कारणैर्द्धावपि वर्षासु विहरतः । अथवा एकस्मात् क्षेत्रादन्यस्मिन् क्षेत्रे सङ्क्रमणे कथमपि मार्गतः स्फिटितौ परिभ्रष्टावेकत्र वर्षासु विहरत उपलक्षणमेतत् तेनैतदपि द्रष्टव्यम्अशिवादिकारणतो गणस्फोटं कृत्वेकाकिनो जाताः सङ्केतवशाच्च कचिद्वर्षासु द्वौ मिलितविति । तत्तियमेत्ता व भवे इति अथवा शेषाः प्रतिभग्ना मृतावा अवशिष्टौ तावन्मात्रावेव द्वावेव भवतस्तिष्ठतः । एवं द्वौ वर्षासु भवतः । ततस्तयोश्च द्वयोर्वर्षासु इयं वक्ष्यमाणा यतना । । तामेवाहएगो रक्खति वसहिं भिक्खवियारादि बितियतो याति । संधरमाणे असंथरे निद्दोस्सुवरिं ठवित्तवहिं ।। [भा. १७६२] वृ- एको वसतिं रक्षति । द्वितीयो भिक्षाविचारादौ भिक्षायां विचारे बहिर्भूमावादिशब्दादन्यमिस्मन् वा प्रयोजने याति । एवं यतना तदा भवति तदा तौ संस्तरतः । असंथरेत्ति अथैकाकिनो भिक्षाया अलाभादन्यतो वा कुतश्चित्कारणान्न संस्तरतस्तदासंस्तरे द्वावपि सह हिण्डाते तत्रेयं यतना, यदि वसतौ निर्दोस्यं (ष्यं) निर्भयं तदा उपधिमुपरि वसतेः स्थापयतो बध्नीतो यथा न कोऽपि पश्यतीति । एवंभूतां च यतनां कुर्वन्तौ तावप्रायश्चित्तविषयौ । अथन कुरुतस्तदा यद् आपद्यते प्रायश्चित्तं तत्प्राप्नुतइति । । [भा. १७६३] सुत्तेणेवुद्धारो कारणियं तं तु होति सुत्तंति । कप्पोत्ति अनुन्नातो वासाणं केरिसे खेत्ते ।। बृ-यत एवं दोषास्ततो द्वयोर्विहारो वर्षासु साक्षात्पंचमेन सूत्रेण प्रतिषिद्धस्त्रयाणां तु विहारस्योद्धारोऽनुज्ञातः सूत्रेणैव षष्ठेन कृतः सौऽप्युत्सर्गतो न कल्पते ततस्तत्सूत्रं कारणिकमशिवादिकारणनिष्पन्नं भवति वेदितव्यम् ।। अथ कीदृशे क्षेत्रे वर्षासु, गाथायां षष्ठी सप्तम्यर्थे प्राकृतत्वात्, त्रयाणां विहारः कल्प इति कल्पते इत्यनेन पादेनानुज्ञातः । सूरिराह [ भा. १७६४ ] महती विद्यारभूमी विहारभूमी य सुलभवित्तीय । सुलभा वसही य जहिं जहन्नयं वासखेत्तं तु ।। For Private & Personal Use Only Jain Education International - www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy