SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ १०. व्यवहार-छेदसूत्रम्-२-४/१०२ वृ- शय्यातरो यदि शून्यां वसतिमालोक्य कस्यापि पार्श्वे दृष्टा श्रुत्वा च तद्वच एतज्जानाति यथा गताः साधव इति न चाप्रीतिरुत्पन्ना तदा प्रायश्चित्तं चत्वारो लघुकाः । अथाप्रीतिकं करोति यथा अदाक्षिण्या एते अनापृच्छ्य गता इति तर्हि गुरुगत्ति चत्वारो गुरुका मासाः । अथैकानेकभेदेन तद्रव्यान्यद्रव्यव्यवच्छेदस्तदा तन्निमित्तमपि चतुर्गुरुकप्रायश्चित्तम् । अधुना मिच्छत्तबडुगमादीति व्याख्यानयति-बटुचारणेत्यादि, बटुका द्विजातयः चारणा वैतालिकविशिषाः भटाः प्रतीतास्ते गताः क्वापि साधव इति वित्राय तस्मिन् शून्ये उपाश्रये आवासयेयुः, तत्र च कलहादिप्रसङ्गः, तथा शून्यां वसतिमालोक्य कश्चित्तिरश्वो मनुष्यो वा समागत्य भ्रियते तत्र च राजग्रहादिदोषसंभवः तथा केचित् शय्यातरस्य प्राधूर्णकाः शून्येयं वसतिरिति कृत्वा शय्यातरानुज्ञया तत्र तिष्ठेयुर्न च ते निष्काशयितुं शक्यन्ते, निष्कासने वा प्रद्वेषादिप्रवृत्तिः, तथा तिरश्ची मानुषी वा प्रसवितुकामाशून्यां दृष्ट्रातत्रागत्य प्रसवते (प्रसुवीत),तस्या निष्काशने आश्रयत्याजनेसंयमविराधनायो दोषा यथोक्ताः प्राक्, एतेशून्य उपाश्रये क्रियमाणेदोपाः ।। सम्प्रति अच्छंतिसलिङ्गमादीणिइतिव्याख्यानयति[भा.१७५५] अह चिट्ठति तत्थेगो एगो हिंडइउभयहा दोसा । सल्लिंगसेवणादी आउत्थपरे उभयतोय ।। वृ- अह तत्रैकस्तिष्ठति एको हिण्डते तत उभयथा उभयेन प्रकारेण यस्तिष्ठति तद्गता यश्च हिण्डते तद्गताश्चेत्यर्थः, स्वलिङ्गसेवनादयो दोषाः स्वलिङ्गसेवना संयतीप्रतिसेवना आदिशब्दात्परलिङ्गसेवना गृहिलिङ्गसेवनाचपरिगृह्यते । कथंभूता इत्याहआत्मोत्याआत्मनैवसंयत्यादिकंकदाचित्प्रार्थयतेइत्यर्थः, तथा परे परतः संवत्यादिकृतक्षोभनात्, उभयतःस्वतः परतश्चसमुत्थाः । ।यदुक्तंप्राक्वसोच्चा गयत्ति लहुगा' इत्यादिगाथापूर्वार्धंतद्व्याख्यानार्थमाह[भा.१७५६] सुन्नेसागरिदृटुंसंथारे पुच्छे कत्थसमणाओ। सोउंगयत्तिलहुगा अप्पत्तिअच्छेदे चउगुरुगा ।। वृ- संस्तरन्ति साधवोऽस्मिन्निति संस्तार उपाश्रयः सागारिकः शय्यातरः, सप्तमी प्राकृतत्वाद द्वितीयार्थे, ततोऽयमर्थः शून्यं संस्तारमुपाश्रयं सागारिको दृष्ट्वा पृच्छेत् कुत्र गताः श्रमणा इति तत्र प्रतिवचः श्रुत्वा गता इति ज्ञाते अप्रीत्यकरणे प्रायश्चित्तं चत्वारो लघुकाः अप्रीतिके समुत्पन्नेच्छेदे च तद्रव्यान्यद्रव्यव्यवच्छेदे चत्वारो गुरुकाः । तदेवं विराधना वसत्यादेरितिव्याख्यातम् ।। सम्प्रति संथारगउवगरणे' इति व्याख्यानयति[भा.१७५७] कप्पट्टग संथारेखेलणलहुगोतुवट्टे गुरुगोउ । नयने दहने चउलहु, एत्तो उमहल्लए वुच्छं ।। वृ-संस्तारेउपाश्रयेयदिकप्पट्ठगत्तिबालकः खेलतिक्रीडतिततःखेलने प्रायश्चित्तंलघुको मासः । अथ त्वग्वर्तनं कुर्यात्तर्हि त्वगवर्तनकृतो गुरुको मासः । अथ स बालकस्तत्र स्थितः स्तेनेन नीयते प्रदीपनकेन वा लग्नेन दह्यते, तदा चतुर्लघु ।अत ऊर्ध्वं महतित्वग्वर्तनादि कुर्वतिप्रायश्चित्तं वक्ष्ये ।। [भा.१७५८] तुवट्ट नयन दहने, गुरुगा हवंतनायारे । अह उवहम्मतिउवहित्तिघेत्तुंनं हिंडमासलहुं ।। [भा.१७५९] उल्लेलहुग, गिलाणादिगा यसुन्नेठवेंतिचउलहुगा। __ अनरक्खितोवहम्मतिहिं पावेंतिजंजत्थ ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy