________________
१२
व्यवहार-छेदसूत्रम्-२-४/१०२ वृ-यत्रमहती विचारभूमिः पुरीषोत्सर्गभूमिः,यत्रचमहतीविहारभूमिभिक्षानिमित्तंपरिभ्रमणभूमिः, यत्र च वृत्तिर्भिक्षावृत्तिः सुलभा, वसतिश्च यत्र सुलभा, तत् जधन्यं वर्षायोग्यं क्षेत्रं उत्कृष्टं त्रयोदशगुणोपेतम् ।।तानेवाह[भा.१७६५] चिक्खल्ल पाणथंडिलवसही गोरस जनाउलो वेज्जो ।
ओसह निचयाहिवती पासंडाभिक्ख सज्झाए ।। वृ-यत्रचिक्खल्लःकर्दमोभूयान्नभवति,प्राणाश्चद्वीन्द्रियादयोभूयांसोनसंभूच्छन्ति, यत्रचभूयांसि स्थण्डिलानि, वसतयश्चद्वित्र्यादयो यत्रप्राप्यन्ते, गोरसंच प्रभूतं,प्रत्येकभूयोजनसमाकुलः कुलवर्गः, वैद्यश्चयत्रविद्यते, औषधानिचसुप्रतीतानि, निचयाश्चधान्यानामतिप्रभूताः,अधिपतिःप्रजानामतीव सुरक्षीवर्तते, पाषण्डाश्चस्तोका विद्यन्ते, भिक्षाचसुलभा, स्वाध्यायश्चनियाघातः । एतदुत्कृष्टं वर्षासु योग्यं क्षेत्रम् ।।साम्प्रतमेतद्गुणाभावेवर्षासुवसतांप्रायश्चित्तमाह- . [भा.१७६६] पाणा थंडिल वसही अहिवति पासंड भिवख सज्झाए।
लहुया, सेसे लहुओ, केसिंची सव्वहिलहुगा ।। वृ-यदि यत्रप्राणाअतिबहवो, यदिवान विद्यन्तेस्थप्डिलानि, वसतयोवा द्वित्र्यादिकान विद्यन्ते, अधिपतिर्वा नास्ति, पाषण्डावा बहवः, भिक्षाचन सुप्रापा, स्वाध्यायो वा न निर्वहति, तत्र वर्षाकालं करोति तदैतेषुदोषेषुप्रत्येकंप्रायश्चित्तंचत्वारोलघुकाः ।शेषे चिक्खल्लादिकेदोषे प्रत्येकंलघुकोमासः । केषांचिदाचार्याणां मतेनपुनः सर्वत्र सर्वेष्वपिदोषेषुप्रत्येकं चत्वारो लघुकाः ।। [भा.१७६७] नीसरणकुच्छणागार कंटका सिग्ग आयभेदोय।
संजमतो पाणादी आगाह निमजणादीया ।। वृ- निस्सरणं नाम फेल्हसणं । कुत्सना अङ्गुल्यन्तराणां कोतः गाराः कर्करकाः । कण्टकाश्च स्थूलशूलादयः । सिग्गत्ति देशीपदमेतत् परिश्रम इत्यर्थः । एष आत्मभेद एते आत्मविराधनायै दोषा इत्यर्थः ।संयमतःसंयमे पुनरयंदोषःप्राणाद्वीन्द्रियादयआदिशब्दात्पृथिवीकायादिपरिग्रहः,तेविद्यन्ते, तथायदिसुखेनात्रगच्छामीतिविचिन्त्यसोदकेकर्दमेगच्छाततथाकचिदगाधेनिमज्जति, आदिशब्दात् पादजङ्घादिक्षोभिताः सकर्दमजलविप्रुष उत्थापवति, ताभिश्च प्राणादिविधातः, सन्मुखागच्छत्पुरुषादिखरण्टनं निजशरीरोपकरणखरण्टनंचेतिपरिग्रहः । [भा.१७६८] धुवणे विहोति दोसाउप्पीलणादी यबाउसत्तंच।
सेहादीनमवन्ना अधोवनेचीरनासोवा ।। वृ-कर्दमाकुले मार्गेगमनतः कर्दमउपकरणेलगति,तथाचोपकरणस्यधोवनेऽपि, आस्तामधोवने इत्यपि शब्दार्थः, दोषाः । के ते इत्याह-उत्पीडनादय उत्पीडनं प्राणादीनां प्लावनमादिशब्दात् शरीरायासस्वाध्यायविधातादिपरिग्रहः ।अपिचवस्त्राणिशरीरंच प्रक्षालयतोबाकुशिकत्वमुपजायते, शरीरोपकरणबकुशीकारणात्, अय न प्रक्षालयति, तधिोवने शैक्षकादीनामवज्ञासंभवश्चीवरनाशश्च कर्दमेन शटनात् । वाशब्दः सप्नुच्चवे।।सम्प्रतिप्राणसंभवेदोषानाह[भा.१७६९] मुइंगविच्छुगादिसुदो दोसासंजमेय सेसेसु ।
___नियमा दोसदुगुंछिय अयंडिल निसग धरणेय ।। वृ- मुइंगाना पिपीलिका वृश्चिकादिषुशेषेषुचप्राणेषु बाहुल्येन संभवत्सु द्वो दोषो तद्यथा संयमे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org