SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ उद्देशक : - ४, मूल - १०२, [भा. १७६९ ] चशब्दादात्मनि च, आत्मविराधना संयमविराधना चेत्यर्थः, तत्र वृश्चिकादिभिर्दशादात्मविराधना, कीटिकादिसत्त्वव्याघाताच्च संयमविराधना । । स्थण्डिलाभावे दोषानाह-नियमत्यादिस्यण्डिलाभावे अस्थण्डिले जुगुप्सिते वा स्थण्डिले निसर्गे पुरीषप्रश्रवणोत्सर्गे नियमाद् दोषाः संयमविराधनादयः । तत्रास्थण्डिले हरितकायादिव्यापादनात् संयमविराधना, पादादिल्हसनादात्मविराधना, जुगुप्सिते स्थण्डिले प्रवचनविराधना | अथैतद्दोषभयान्न व्युत्सृजति किन्तु धारयति । तत आह, धारेण च दोषा आत्मविधातादयः तथाच पुरीषादिधारणे जीवितनाशादिः” “मुतनिरोह चक्खुं वच्चनिरोहेय जीवियं चयति” इत्यादिवचनात् । ग्लानत्वे च चिकित्साकरणतः संयमव्याघातः । । यत्र सङ्कटा वसतिर्यत्र द्वित्र्यादयो वसतयो न लभ्यन्ते तत्र दोषानाह , [भा. १७७० ] वसहीए संकडाए विरल्ल अविरल्लणे भवे दोसा । वाघातेन व अन्नाऽसतीए दोसा उवच्चंते ।। ? वृ- वसतौ सङ्कटायां सत्यामुपधेः विरल्लेति विस्तारणे वा दोपा भवन्ति के ते इति चेदुच्यते;-यदि उपधिस्तीमितो विस्तार्यते ततः सङ्कटत्वादन्यमप्यतीमितमुपधिं तीमयति । अय न विस्तार्यते तर्हि स कोथमुपयाति, तत्संसर्गतः शरीरस्य च मान्द्यमुपजायते । एकस्यश्चवसतेः कथमपि व्याघाते अन्यस्याश्च अभावे ग्रामान्तरं व्रजनीयं तत्र च व्रजति संयमात्मग्रवचनविराधना । तथा हि-मार्गे जलहरितकायादिव्यापादनात् संयमविराधना अगाधे सलिले प्रविशत आत्मविराधना, वसत्यलाभतो वर्षाकालेऽपि वर्षप्रपातेनावरुध्यमानान् पथगिच्छतस्तान् दृष्ट्वा लोकः प्रवचनं कुत्सयते, ईदृशा एवैते वर्षास्वपि नाश्रमं क्वचिदपि लभन्ते इति प्रवचनविराधना।। गोरसाभावे दोषानाहअतरंतबालवुरुढा अभाविता चेव गोरसस्स असती । [भा. १७७१] १३ जं पाविहित्ति दोसं आहारमएसु पाणेसु ।। वृ- अतरन्तो नाम असहास्तथा बाला वृद्धाश्च तथा येऽभाविता येषां गोरसव्यतिरेकेण नान्यत्किमपि प्रतिभासते, ते गोरसस्य असति अबावे आहारमये, प्राणेषु सत्सु यद्गाढानागाढपरितापनादिकं दोषं प्राप्स्यन्ति, तन्निमित्तं सर्वमपि प्रायश्चित्तमाचार्यो लप्स्यते, तस्माद्यत्र तदभावस्तत्र न वस्तव्यम् । ननु भणितो रसच्चाओ, पणीयरसभोयणे य दोसा उ । [भा. १७७२] किं गोरसेन भते, भन्नइ सुण चोयग इमं तु ।। वृ- ननु सूत्रे रसानां क्षीरादीनां त्यागो भणितः, “अनशनमूनोदरता, वृत्तेः संक्षेपणं, रसत्यागः ” इत्यादिबाह्यतपोव्यावर्णनात् । प्रणीतरसभोजने च दोषाः कामोद्रेकादयः शरीरोपचयादिभावात्, ततः किं भदन्त गोरसेन कर्तव्यम् | सूरिराह श्रृणु चोदक! इदं वक्ष्यमाणम् ।। तदेवाह - [भा. १७७३] कामं तु रसच्चागो, चतुत्थमंगं तु बाहिरतवस्स । सो पुन सहूण जुञ्जति असहुण य सज्ज वावत्ति ।। बृ- काममनुमतमेतत् । रसत्यागश्चतुर्थमङ्गं चतुर्थो भेदो बाह्यतपसः षड्भेदात्मकस्य । केवलं, पुनःशब्दः केवलार्थः, सरसत्यागः सहानां युज्यते संगच्छते । असहानामसमर्थानां रसाभावे सद्यस्तत्कालं व्यापत्तिर्मृत्युः ।। अन्यच्च[ भा. १७७४ ] Jain Education International अगिलाए तवोकम्मं परक्कमे संजतोति इतिवृत्तं । तम्हा उरसच्चाओ न नियमतो होति सव्वस्सा ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy