________________
१४
व्यवहार- छेदसूत्रम् - २-४ / १०२
वृ- संयतस्तपः कर्म प्रति अग्लान्या पराक्रमेदित्युक्त भगवता तस्मान्न नियमतः सर्वस्य रसत्यागो
भवति ।
जस्स उसरीरजवणा, रुते पणीयं न होइ साहुस्स । सोवियहु भिन्नपिंडं भुंजउ अहवा जह समाही ।।
वृ- यस्य साधोः शरीरयापना न प्रणीतं प्रणीतरसमृते भवति, सोऽपि च आसतां पूर्वोक्ता असहा इत्यपिशब्दार्थः । हुनिश्चितं भिन्नपिण्डं धृतादिना मिश्रितं गलितापिण्डं भुञ्जीत । अथवा यथासमाधि क्षीरादि भुङ्क्ते केवलं मा गृद्धिर्भूयादिति संपृष्ट (संमृष्ट) पानकादिना मीलयित्वा क्षीरमापिबेत् । । [ भा. १७७६ ] चउभंगो अजनाउलकुलाउले चेव ततियभंगो उ ।
[भा. १७७५ ]
भोइयमादि जनाउल कुलाउल मडंबमादीसु ।।
वृ- जनाकुल- कुलाकुलयोश्चतुर्भङ्गिका जनाकुलमपि कुलाकुलमपीति थमो भङ्गः, जनाकुलं न कुलाकुलमिति द्वितीयः, न जनाकुलं कुलाकुलमिति तृतीयः, न जनाकुलं नापि कुलाकुलमिति चतुर्थः, प्रथमभङ्गे बहूनि कुलानि बहूनि मानुषाणि । द्वितीयभङ्गे कुलानि स्तोकानि जनास्त्वतिबहवः, कुले कुले भोजिकादिजनानां सहस्त्रसंख्याया भावात् । तृतीयभङ्गे बहूनि कुलानि जनाः स्तोकाः, गृहे गृहे एकस्य द्वयोर्वा मानुषयोर्भावात् । चतुर्थभङ्गे न बहूनि कुलानि नापि बहवो जनाः; कतिपयकुलानां प्रतिकुलंच स्तोकमानुषाणां भावात् ।। अत्र यौ भङ्गौ ग्राह्यौ तावाह-अजनाकुलेत्यादिना न जनाकुलं कुलाकुलमिति तृतीयो ग्राह्यः एतदनुज्ञानात् प्रथमः सुतरामनुज्ञातो द्रष्टव्यस्तस्योभयगुणोपेतत्वात् । आहच चर्णिकृत्“जइ ताव तइओ भंगो । अनुन्नाओ प्रगेव पढमो भंगो अनुन्नातो' इति, शेषौ तु द्वौ भंगी नानुज्ञाती कुलानामल्पत्वात् ।। सम्प्रति जनाकुलतां कुलाकुलतां च व्याख्यानयति भोइय इत्यादि प्रथमभङ्गे द्वितीयभङ्गे च जनाकुलं भोजिकादिभिरतिप्रभूतैर्जनैराकीर्णत्वात् कुलाकुलं मडम्बादिषु स्थानेषु । तथा हि-मडम्बे अष्टादशकुलसहस्त्राणि, आदिशब्दात्पत्तनादिपरिग्रहः । व्याख्यातं जनकुलद्वारम् । । वेस्स ओहस्सव, असतीए गिलाणउ जं पावे । वेजसगास नेते आनंते चेव जे दोसा ।।
[भा. १७७७ ]
वृ- यदि नाम कोऽपिग्लानो जायते, तदावैद्यस्य औषधस्य चासत्यभावे यत् ग्लानो अनागाढागाढपरितापनादि प्राप्नोति तन्निमित्तं सर्व प्रायश्चित्तमाचार्यः प्राप्नोति । अन्यच्च तादृशे क्षेत्रेऽवतिष्ठमानो वैद्योऽत्र नास्तीति ग्लानेऽन्यस्मिन् ग्रामे वैद्यस्य सकाशं नीयमाने आनीयमाने वा ये दोषां अनागाढमनागाढं वा परितापनं स्तेनैरुपकरणाद्यपहरणं व्याघ्रादिश्वापदैर्भणमित्यादि तद्धेतुकमपि प्राप्नोति । एवमौषधस्याप्यानयसाधुवु ग्रामान्तरे प्रेष्वमाणेषु दोषा वाच्वाः । ।
[भा. १७७८ ]
नेचइया पुन धन्नं दलंति असारअंचितादीसु । अहिवंमि होइ रक्खा, निरंकुसेसुं बहू दोसा ।।
वृ- निचयेन संचयेनार्थाद् धान्यानां ये व्यवहरन्ति ते नैचयिकास्ते असारा दरिद्रा अञ्चिताः पूज्या राजमान्याः पितृपितृव्यादयोवा आदिशब्दादनञ्चितादिपरिग्रहस्तषु क्रयेणान्यथा वा धान्यं ददति । ततः सर्वत्र भिक्षा सुलभोपजायते ।। तथा अधिपेऽधिपतौ विद्यमाने रक्षा भवति । निरङ्कुशेषु लोकेषु मध्ये पुनर्वसतो बहवो दोषा उपकरणापहारापमानादिलक्षणाः।। पाषण्डद्वारमाहपासंडभाविएस, लंभति ओमानमो अतिबहसु ।
[ भा. १७७९ ]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org