________________
१५
उद्देशकः-४, मूल- १०२, [भा. १७७९]
अवियविससुवलद्धी हवंति कजेसु उसाहाया ।। वृ-यदि स्तोकाः पाषण्डास्ततोऽशनादीनि वस्त्राणि भैषजानि चातिसुलभानि भवन्ति अतिबहुषु पुनः पाषण्डेसुसत्सुपाषण्डभावितेभ्यो जनेभ्यो, गाथायांसप्तमीपञ्चम्यर्थे, अपमानंलभन्ते । अपीति संभावने ।चः पुनरर्थे ।संभाव्यतेपुनरियं विशेषोपलब्धिरन्यपाषण्डेभ्योऽतिशयोपलब्धिर्यथा यदन्यत् पाषण्डिनां कल्पतेतत्साधूनांन कल्पते । तत एवं लोकोभावितःसन्साधूनां कल्पिकं ददाति । तथा कार्येषु च बहुप्रकारेषु शृङ्गानादि(तादि)लक्षणेषु वयमपि पाषण्डा एतेऽपिच पाषण्डाधर्मस्थिता इति कृत्वा सहायाभवन्ति।।सम्प्रति भिक्षाद्वारमाह[भा.१७८०] नाणतवाण विवढीगच्छस्सयसंपयासुलमभिक्खे ।
नयएसणातोघातो नेव यठवणाए भंगोउ ।। वृ- सुलभा भिक्षा यत्र तस्मिन् सुलभभिक्षे ग्रामादौ वसतां ज्ञानस्य श्रुतज्ञानस्य तपसश्चानशनादेविशिष्टा वृद्धिर्भवत्याहारोपष्टम्भतः स्वाध्यायस्य तपश्च कंर्तुशक्यत्वात्तथा गच्छस्य सम्पत् स्फीतताऽतिविशिष्टाभवति ।शिष्याणांप्रातीच्छिकानांवाडनेकेषामागमात्नच एषणायाघातःप्रेरणा, नापि स्थापनाया मासकल्पवर्षाकल्परुपायाअथवास्थापनाकुलानांभङ्गः प्रेरणा।। [भा.१७८१] वायंतस्सनुपनगंपनगंपडिच्छतो भवेसुत्तं ।
एगगंबहमानो कित्तीय गुणा यसज्झाए ।। वृ- यत्र स्वाध्यायश्चतुःकालं निर्वहति तत्र वर्षावासः कर्तव्यो यतः स्वाध्यायेऽमी गुणाः सुत्रमाचारादिकं सूत्रतोऽर्थतस्तदुभयतश्च वाचयतः पञ्चकं वक्ष्यमाणं सङ्ग्रहादिकं भवति । यथा च वाचयतः पञ्चकंतथा प्रतीच्छतः श्रोतरपिपञ्चकंतस्यापिसंग्रहादिनिमित्तंश्रुतश्रवणाय प्रवृत्तेः । तथा वाचयतःप्रतीच्छतश्चैकाम्यं श्रुतैकपरतोपजायते,साचविश्रोतसिकारिका भवति ।तथाबहुमानोभक्तिः श्रुतस्य तीर्थकरस्य च कृतो भवति । कीर्तिश्च अवदाता सकलधरामण्डलव्यापिनी यथा भगवतः आर्यवरैस्येति । अधुना पञ्चकंव्याख्यानयति[भा.१७८२] संगहुवगह निजर सुयपज्जवजायमव्ववच्छित्ती।
पनगमिणं पुव्वुत्तंजेचायहितोपलंभादी ।। वृ- यत्पञ्चकं पूर्वमुक्ततदिदं तद्यथा-सङ्ग्रह उपग्रहो निर्जरा श्रुतपर्यवजातमव्यवच्छित्तिश्च । तत्र संग्रहः शिष्यादेस्तथाच श्रुतेशिष्यादयः संगृह्यन्ते । उपग्रहउपष्टम्भःसच श्रुतज्ञानादिप्रदानतः । निर्जरा ज्ञानावरणादिकर्मविनिर्जरणं । श्रुतपर्यवजातं प्रभूता प्रभूततरा श्रुतज्ञानपर्यायवृद्धिः । अव्यवच्छित्तिस्तीर्थस्य । ये चात्महितोपलंभादय आत्महितोपलंभः परहितोपलंभः उभयहितोपलंगः एकाग्द्रं बहुमानं चेतितद्वा पञ्चकंप्रतिपत्तव्यम्।। [भा.१७८३] एवं ठियाणपालो आयरिओ सेस मासियं लहुयं ।
कम्पट्टिनीलकेसी आयसमुत्थापरे उभए ।।। वृ- एवं त्रयोदशदोषविमुक्ते त्रयोदशभिर्गुणैरुपेते क्षेत्रे कारणवसतः त्रयाणां वर्षासु स्थितानां द्वयोभिक्षार्थ विनिर्गमेतृतीयः पश्चात्पालो वसतिपालः आचार्यः स्थापनीयः । अथान्यंस्थापयति तत आह-शेषे आचार्यव्यतिरिक्तेवसतिपाले स्थाप्यमाने प्रायश्चित्तं मासिकं लघु । तथा यदितरुणंश्रमणं वसतिपालंपश्चात्स्थापयति,ततइमेस्वलिङ्गासेवनादिका दोषास्तद्यथा-आत्मसमुत्थाः परेपरसमुत्था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org