________________
१६
व्यवहार- छेदसूत्रम् - २- ४ / १०२ उभयस्मिन् उभयसमुत्थाः । कस्या इवेत्याह- कप्पट्ठिनलिकेसीति कल्पस्थिता बालिका नीलकेशी कृष्णकेशी तरुणीत्यर्थः, ततो विशेषणसमासः, तस्या इव, विभक्तिलोप इवलोपश्च प्राकृतत्वात् । इयमत्रभावना-तरुणी बालिका तरुणानां महंताच प्रार्थनीया भवति । एवं तरुणोऽपि तरुणीनां महतीनां च प्रार्थनीयस्ततस्तस्मिन पश्चात्स्थाप्यमाने स्वलिङ्गपरलिङ्गगृहिलिङ्गासेवनविषया आत्मसमुत्थाः परसमुत्थाः उभयसमुत्थाश्च मैथुनदोषाः संभवन्ति । एतदेवाह
[भा. १७८४ ] तरुणे वसहीपाले कप्पठिसलिंगमादि आउभया । दोसा उ पसज्जुंती अकप्पिए दोसिसे अन्ने ।।
वृ- तरुणे वसतिपाले सति कप्पट्ठित्ति तरुण्याः बालिकाया इव स्वलिङ्गादिकाः स्वलिङ्गासेवनगृहिलिङ्गासेवनरुपा आउभयाइति आत्मसमुत्था उभयसमुत्था उपलक्षणमेतत् परसमुत्थाश्च दोषास्तस्य प्रसजन्ति अकल्पिके च बालादाविमे दोषास्तानेवाह
[भा. १७८५ ] बलि धम्म हा किड्डा पमन्त्रणा वरिसणा य पाहुडिया । खंधार अगनि, भंगे मालतवेना, य नातीय ।।
वृ-साधवः कदाचित्कारणवशतः सप्रावृत्तिकायां वसतौ स्थिताभवेयुः, तत्रयदि बालादिर्वसतिपालः क्रियते तदा बलिदोषः । तथा हि तत्र बलिकारकाः स्वभावेन वा गच्छेयुः कैतवेन वा, तत्रापि ये कैतवेन ते प्रथमत एवोपकरणहरणंबुद्ध्या, ये तु स्वभावतस्ते नोपकरणहरणनिमित्तमागच्छन्ति । किन्त्वागतानां बलिं कुर्वतां बालमेकाकिनं दृष्ट्रा हरणबुद्धिरुपजायते । ततोऽपहरन्ति । अथवा बलौ विक्षिप्यमाणे उपकरणं कूरेण खरण्ट्यते । ततो बालो जल्पति बहिरुपकरणं निष्काशयामि । एवमुक्त्वा सकलमप्युपकरणादाय बहिर्निर्गतस्तावदभ्यन्तरे ते उपधिमपहरन्ति । ये तु कैतवेन समागच्छन्ति ते उपधिमपहर्तुकामा ब्रुवते क्षुल्लक ! बलिरेष समागच्छति ततस्त्वं बहिर्निर्गच्छ । एवं तं बालं बहिर्निष्काश्योपधिमपहरन्ति । अथवा ब्रूयुरिदं वयं बलिं करिष्यामस्ततस्त्वं बहिस्तिष्ठान्यथा कूरेण खरण्टना भविष्यति । एवमुक्ते बहिर्निर्गते बाले उपधिमपहरन्ति । अथवेदमाचक्षेत, उपधिमिभ्यन्तरात् बहिरपनय यावदुलिंवयं विदध्महे । सच बालस्तत्कार्यमजानानः समस्तमुपकरणेकवारं ग्रहीतुमशक्नुवन् स्तोकं गृहीत्वा बहिः संस्थाप्य यावदन्यस्य ग्रहणाय मध्ये प्रविशति तावत्ते धूर्ता अपहरन्ति । । धम्मकहत्ति धर्मकथाश्रवणाय केचित्स्वभावत आगच्छेयुरपरे कैतवेन समागत्य चेद् ब्रुवते कतय क्षुल्लकास्माकं धर्मकथां, स च तत्त्वमजानानः कथामारभते । ततः कथाप्रमत्ते केचित्तथैवोपविष्टाः श्रृण्वंत्यपरे तूपधिमपहरन्ति ।। किड्डत्ति क्रीडानिमित्तमपि केचित् स्वबावतः समागच्छत्यपरे कैतवेन । तेषु च समागतेषु स बालकः स एव प्रमार्जने आवर्षणे च वेदितव्यः । ।
पाहुडिया इति प्राभृतिकाभिक्षा अर्छनिका च । तत्र केचित् कैतवेन स्वभावेन वा वदन्ति, क्षुल्लक ! गृहाण भिक्षाम्, अथवा बहिर्निर्याहि यावद्वयमर्चनिकां कुर्मस्ततो यावद्भक्षार्थ याति बहिर्वानिर्गच्छति तावदपहरन्ति । । खन्धारत्ति अपरे कैतवेन स्वभावेन वा वदेयुर्यथा एष रात्रा सह स्कन्धावारः समागच्छति । तत्रि यदि स्वभावेन ततो नश्यति, स नश्यन् बालस्तैरपहियते । कैतवेन समागच्छंतो ब्रुवते, क्षुल्लक! पलायस्व, स्कन्धावारः समागच्छति, ततः स नश्यति । इते अपहरन्ति । । अगणित्ति, प्रदीपनं लग्नं परतः स्वभावेन श्रुत्वा स्वयं वावलोक्य स बालक उपधिलोभाद्वा स्वयं वसतेर्वहिर्न निर्गच्छति नापि किञ्चिदुपकरणंनिष्काशयति । ततस्तस्य बालकस्योपकरणस्य च विनाशः, यदि उपकरणनिष्काशनाय
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International