________________
सूत्रकृताङ्ग सूत्रम् १/१/१/२२
मू. (२३)
मू. (२२) ते नावि संधिं नचाणं, न ते धम्मविओ जणा।
जे ते उ वाइणो एवं, न ते गब्भस्स पारगा।। ते नावि संधिं नञ्चाणं, न ते धम्मविओ जणा।
जे ते उ वाइणो एवं, न ते जम्मस्स पारगा। मू. (२४) ते नावि संधिं नञ्चाणं, न ते धम्मविओ जणा।
जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा। मू. (२५)
ते नावि संधिं नचाणं, न ते धम्मविओ जणा।
जे ते उ वाइणो एवं, न ते मारस्स पारगा। वृ. ते पञ्चभूतवाद्याद्याः 'नापि' नैव सन्धिं छिद्रं विवरं, स च द्रव्यभावभेदावेघा, तत्र द्रव्यसन्धिः कुड्यादेः भावसन्धिश्च ज्ञानावरणादि कर्मविवररूपः तमज्ञात्वा ते प्रवृत्ताः णमिति वाक्यालङ्कारे, यथा आत्मकर्मणोः सन्धिद्धिधाभावलक्षणो भवति तथा अबुध्ध्वैव ते वराका दुःखमोक्षार्थम्युद्यता इत्यर्थः, यथात एवंभूतास्तथा प्रतिपादितं लेशतः प्रतिपादयिष्यतेच, यदिवासन्धानंसन्धिः-उत्तरोत्तरपदार्थपरिज्ञानंतदज्ञात्वा प्रवृत्ताइति यतश्चैवमतस्तेनसम्यग्धर्मपरिच्छेदे कर्तव्ये विद्वांसो-निपुणा ‘जनाः' पञ्चभूतास्तित्वादिवादितो लोक इदि, तथाहि
क्षान्त्यादिकोदशविधोधर्मस्तमज्ञात्वैवान्यथाऽन्यथाचधर्मप्रतिपादयन्ति, यत्फलाभावाच्च तेषामफलवादित्वं तदुत्तरग्रन्थेनोद्देशकपरिसमाप्तयवसानेन दर्शयति-'येतेविति'तुशब्दश्चशब्दार्थे यइत्यस्यानन्तरं प्रयुज्यते, येचते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयः, 'आघो' भवौघः संसारस्तत्तरणशीलास्तेन भवन्तीति श्लोकार्थः। तथा च न तेवादिनः संसार गर्भ जन्म दुःख मारा दि पारगा भवन्तीति।॥ यत्पुनस्ते प्राप्नुवन्ति तद्दर्शयितुमाहमू. (२६)
नाणाविहाइंदुक्खाई, अणुहोति पुणो पुणो।
संसारचक्कवालंमि, मच्चुवाहिजराकुले ॥ मू. (२७) उच्चावयाणि गच्छंता, गब्भमेस्संति नंतसो।
नायपुत्ते महावीरे, एवमाह जिनोत्तमे ॥-त्तिबेमि। वृ. 'नानाविधानि' बहुप्रकाराणि 'दुःखानि' असातोदयलक्षणान्यनुभवन्ति पुनः पुनः, तथाहि-नरकेषु करपत्रदारणकुम्भीपाकतप्तायःशाल्मलीसमालिङ्गनादीनि तिर्यक्षुच शीतोष्णदमनाङ्कनताडनाऽतिभारारोपणक्षुत्तृ डादीनि मनुष्येषुइष्टवियोगानिष्टसंप्रयोगशोकाक्रन्दनादीनि देवेषु चामियोग्येष्याकिल्बिषिकत्वच्यवनादीन्यनेकप्रकाराणि दुःखानि ये एवंभूता वादिनस्ते पौनः पुन्येन समनुभवन्ति, एतच्च श्लोकार्द्ध सर्वेषूत्तर श्लोकार्थेष्वायोज्यम, शेषं सुगमं यावदुद्देशकसमाप्तिरिति।नवरम् ‘उच्चावचानी'तिअधमोत्तमानि नानाप्रकाराणिवासस्थानानि गच्छन्तीति, गच्छन्तो भ्रमन्तो गर्भाद्गर्भमेष्यन्ति यास्यन्त्यनन्तशोनिर्विच्छेदमिति ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह-ब्रवीम्यहं तीर्थकराज्ञया, न स्वमनीषिकया, स चाहं ब्रवीमि येन मया तीर्थङ्करसकाशाच्छुतम्, एतेन च क्षणिकवादिनिरासो द्रष्टव्यः ।
अध्ययनं-१ उद्देशकः-१ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org