Book Title: Agam Sutra Satik 42 Dashvaikalik MoolSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 224
________________ अध्ययनं - ९, उद्देशक:- [ नि. ३२३] २२१ सर्व पर्यायाः 'उपदिष्टा: ' कथिता 'ये' अगुरुलध्वादयो 'यथा' येन प्रकारेण 'जिनवरै: ' तीर्थकरैः 'तान्' भावान् ' तथा ' तेन प्रकारेण श्रद्धत्ते नरः, श्रद्दधानश्च कर्म विनयति यस्मा - द्दर्शनविनयो भवती तस्माद्, दर्शनाद्विनयो दर्शनविनय इति गाथार्थः ॥ ज्ञानविनयमाह-' ज्ञानं शिक्षति' अपूर्वं ज्ञानमादते, 'ज्ञानं गुणयति' गृहीतं सत्प्रत्यावर्त्तयति, ज्ञानेन करोति 'कृत्यानि संयमकृत्यानि, एवं ज्ञानी नवं कर्म न बन्धाति प्राक्तनं च विनयति यस्मात् 'ज्ञानविनीतो' ज्ञानेनापनीतकर्मा भवति तस्मादिति गाथार्थः ॥ चारित्रविनयमाह-'अष्टविधम्' अष्टप्रकारं 'कर्मचयं' कर्मसंघातं प्राग्बद्धं यस्माद् 'रिक्तं करोति' तुच्छतापादनेनापनयति 'यतमानः' क्रियायां यत्त्रपरः तथा नवमन्यं च कर्मचयं न बध्नाति यस्मात् 'चारित्रविनय' इति चारित्राद्विनयश्चारित्रविनयः चारित्रेण विनीतकर्मा भवति तस्मादिति गाथार्थः ॥ तपोविनयमाह - अपनयति तपसा 'तमः' अज्ञानम् उपनयति च स्वर्गं मोक्षम् 'आत्मानं ' जीवं तपोविनयनिश्चयमतिः यस्मादेवंविधस्तपोविनीतो भवति तस्मादिति गाथार्थः ॥ उपचार-विनयमाह-अथौपचारिकः पुनर्द्विविधो विनयः समासतो भवति, द्वैविध्यमेवाहप्रतिरूपयोगयोजनं तथाऽ नाशातनाविनय इति गाथासमासार्थः ॥ 1 व्यासार्थमाह- 'प्रतिरूपः ' उचितः खलु विनयस्त्रिविधः, 'काययोगे च वाचि मानस: ' कायिको वाचिको मानसश्च, अष्टचतुर्विधद्विविधः कायिकोऽष्टविधः वाचिकश्चतुर्विधः मानसो द्विविधः । प्ररूपणा तस्य कायिकाष्टविधादेरियं भवति वक्ष्यमाणलक्षणेति गाथार्थः ॥ कायिकमाह- अभ्युत्थानमर्हस्य, अञ्जलिः प्रश्नादौ, आसनदानं, पीठकाद्युपनयनम्, अभिग्रहो गुरुनियोगकरणाभिसंधि:, 'कृतिश्चे' ति कृतिकर्म वन्दनमित्यर्थः, 'शुश्रूषणं' विधिवददूरासन्नतया सेवनं, 'अनुगमनम्' आगच्छतः प्रत्युद्गमनं, 'संसाधनं च' गच्छतोऽनुब्रजनं चाष्टविधः कायविनय इति गाथार्थः ॥ वागादिविनयमाह - 'हितमितापरुषवा 'गिति हितवाक्-हितं वक्ति परिणामसुन्दरं, मितवाग्मितं स्तोकैरक्षरे:, अपरुषवागपुरुषम् - अनिष्ठुरं, तथा 'अनुविचिन्त्यभाषी' स्वालोचितवक्तेति वाचिको विनयः । तथा अकुशलमनोनिरोधः आर्तध्यानादिप्रतिषेधेन, कुशलमनउदीरणं चैव धर्मध्यानादि- प्रवृत्त्येति मानस इति गाथार्थः ॥ आह-किमर्थमयं प्रतिरूपविनयः ?, कस्य चैष इति ?, उच्यतेनि. [३२४] पडिरूवो खलु विनओ पराणुअत्तिमइओ भुणेअव्वो । अप्पडिवो विनवी नायव्वो केवलीणं तु ।। नि. [३२५] एसो मे परिकहिओ विनओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणकबेंति अनासयणाविनयं । तित्थगरसिद्धकुलगणसंघकियाधम्मनाणनाणीणं । नि. [३२६] नि. [३२७] Jain Education International आयरिअर ओझागणीणं तेरस पयाणि ॥ अनसायणाय भत्ती बहुमानो तहय वन्नसंजलणा । तित्थगराई तेरस चउग्गुणा होंति बावत्रा ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284