Book Title: Agam Sutra Satik 42 Dashvaikalik MoolSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 248
________________ अध्ययनं-१०, उद्देशकः - [नि. ३५९] २४५ ___ होही अट्ठो सुए परे वा, तं न निहे न निहावए जे स भिक्खू ।। वृ. तथैवे'तिपूर्वर्षिविधानेन अशनं पानं च' प्रागृक्तस्वरूपं तथा विविधम्' अनेकप्रकार 'खाद्यं स्वाद्यंच' प्रागुक्तस्वरूपमेव लब्ध्या' प्राप्य, किमित्याह-भविष्यति'अर्थः 'प्रयोजनमनेन श्वः परश्वो वेति तद्' अशनादि ननिधत्ते' न स्थापयति स्वयं तथा 'ननिधायपति' नस्थापयत्यन्यैः स्थापयन्तमन्यं नानुजानाति, यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति सूत्रार्थः ।। मू.(४९३) तहेव असनं पानगंवा, विविहंखाइमसाइमंलभित्ता। छंदिअ साहम्मिआण भुंजे, भुच्चा सज्झायरए जे सभिक्खू । वृ.किंच-तथैवाशनं पानं च विविधं खाद्यं स्वाद्यं चलब्ध्येति पूर्ववत्, लब्ध्या किमित्याह'छन्दित्वा' निमन्त्र्य समानधार्मिकान्' साधून् शृंक्ते, स्वात्मतुल्यतया तद्वात्सल्यसिद्धेः, तथा भुक्त्वा स्वाध्यायरतश्च यः चशब्दाच्छेषानुष्ठानपरश्च यः सभिक्षुरिति सूत्रार्थः ।। मू.(४९४) न य वुग्गहिअंकहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते। संजमे धुवं जोगेण जुत्ते, उवसंते अविहेडए जे सभिक्खू॥ वृ. भिक्षुलक्षणाधिकार एवाह-न च 'वैग्रहिकी' कलहप्रतिबद्धां कथां कथयति, सद्वादकथादिष्वपिन चकुप्यति परस्य, अपितु निभृतेन्द्रियः' अनुद्धतेन्द्रियः 'प्रशान्तो' रागादिरहित एवास्ते, तथा 'संयमे' पूर्वोक्ते 'ध्रुवं' सर्वकालं 'योगेन' कायवांनःकर्मलक्षणेन युक्तो योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तेः, तथा उपशान्तः' अनाकुलः कायचापलादिरहित: अविहेठकः' न क्वचिदुचितेऽनादरवान्, क्रोधादीनां विश्लेषक इत्यन्ये, य इत्थंभूतः स भिक्षुरिति । मू.(४९५) जो सहइ हु गामकंटए, अक्कोसपहारतज्जणाओ । भयभेरक्सहसप्पहासे, समसुहदुक्खसहे अजेसभिक्खू॥ वृ.किच-य: खलु महात्मा सहते 'सम्यग्ग्रामकमण्टकान्' ग्रामा-इन्द्रियाणि तहुःस्वहेतवः कण्टकान्तानः,स्वरूपपत एवाह-आक्रोशान् प्रहरान्तर्जनाश्चेति, तत्राकोशो यकारादिभिः प्रहारा: कशादिभिः तर्जना अमृयादिभिः, तथा भैरवभया' अत्यन्त रौद्रभयजनका: शब्दाः सप्रहासा यस्मिन् स्थान इति स्थान इति गम्यते तत्तथा तस्मिन्, वैतालादिकृतार्तनादाट्टहास इत्यर्थः, अत्रोपसर्गेषु सत्सु समसुखदुःखसहश्च-य: अचिलतसामायिकभावाः सभिक्षुरिति सूत्रार्थः ।। मू.(४९६) पडिमं पडिवज्जिआमसाणे, नो भीयए भवभेरवाइंदिस्स। विविहगुणतवोरए अनिच्चं, न सरीरं चाभिकंखए जे स भिक्खू ॥ वृ.एतदेव स्पष्टयति-'प्रतिमा मासादिरूपां'प्रतिपद्य' विधिनाऽङ्गीकृत्य श्मशाने पितवृवने 'न बिभेति' न भयं याति 'भैरवभयानि दृष्टवा' रौद्रभयहेतूनुपलभ्य वैतालादिरूपशब्दादीनि 'विविधगुणतपोरश्च नित्यं मूलगुणाद्यनशनादिसक्तश्च सर्वकालं, नशरीरमभिकाङ्गते नि:स्पृहतया वार्त्तमानिक भावि च, य इत्थंभूतः स भिक्षुरिति सूत्रार्थः॥ मू(४९७) असई वोसट्टचत्तदेहे, अकुठे व हए लूसिए वा। पुढविसमे मुनी हविज्जा, अनिआणे अकोउहाल्ले जे सभिक्खू ॥ वृ.नसकुदसकृत्सर्वदेत्यर्थः, किमित्याह-'व्युत्सृष्टत्यक्तदेहः' व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो विभूषणाकरणेन देहः-शरीरं येनस तथाविधः, आकृष्टो वायकारादिना हतो वा For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284